________________ पुष्पादिद्रव्यस्तव: प्रधानो भावस्तवश्च गौणः। यतीनां चाज्ञानुसारिणी चर्या भावस्तव: प्रधान:, पुष्पादिद्रव्यस्तवश्च द्रव्याभावात् केवलमनुमोदनोपदेशादिलक्षणो गौणः समवेसयः। तदुक्तं च - दुविहा जिणिंदपूआ, दव्वे भावे य तत्थ दव्वंमि। दव्वेहि जिनपूआ, जिनाणापालनं च भावे / / 1 / / / / 192 / / ... ये केचन तु गृहिणामपि द्रव्यस्तवं निषेधयन्ति तान् प्रत्याह - बल्यादिसमवसरणे न च यत् प्रतिषिद्धमर्हता जातु / तस्मात् सोऽनुज्ञातो योग्यानां गम्यते न्यायात् / / 193 / / टीका - यद् यस्माद् बल्यादि द्रव्यस्तवाङ्गं राजादिना बलिढौकनम्, आदिपदात् सुरकृतसुगन्ध्युदकपुष्पवृष्ट्यादिपरिग्रहः समवसरणे धर्मदेशनसानि न नैव च पक्षान्तरे प्रतिषिद्धं निवारितम् अर्हता भुवनगुरुणा जातु कदाचिदपि तस्मात् कारणात् स द्रव्यस्तव: अनुज्ञात: अनुमतो भगवता योग्यानां भावस्तवाऽभिलाषिगृहिणामिति गम्यते प्राप्यतेऽवबुध्यते वा न्यायाद् अनिषिद्धमनुमतमिति लक्षणादिति / / 193 / / जिनेन्द्रानुज्ञातो योगश्च न कदापि मोक्षविगुणो भवतीत्याह - अनुजानीते नार्हन् योगं मोक्षविगुणं कदाचिदपि। तदनुगुणोऽयं न पुनर्नान्येषां बहुमतो भवति / / 194 / / टीका - यस्माद् अर्हन् तीर्थकृद् न नैव अनुजानीते अनुमन्यते मोहाभावाद् योगं व्यापार मोक्षविगुणं मोक्षोपकारशून्यं कदाचिदपि कस्मिन्नपि काले। तत् तस्माद् अनुगुणो मोक्षोपयोगी अयं द्रव्यस्तव: न पुनर्न अपि त्ववश्यमेव अन्येषां भगवद्व्यतिरिक्तानामस्मादृशां बहुमतः सम्मानितो भवति जायतेऽत एव वन्दनाद्यर्थ: कायोत्सर्ग: सूत्रे विहित इति / / 194 / / अत्र पर आह - भावस्य योऽपि लेश: स बहुमतो भगवता गुणज्ञेन / द्रव्यस्तवेन न विना स इत्यसावर्थतस्तादृक् / / 195 / / टीका - ननु भावस्य भक्तिभावस्य योऽपिलेश: कणो बल्यादौ क्रियमाणे, स एव बहुमत : प्रशंसित:, न तु बल्यादिरूपद्रव्यस्तव:, भगवता भुवनगुरुणा गुणज्ञेन मोक्षोपकारलक्षणगुणरूपेण जानतेति चेद्, उच्यते - द्रव्यस्तवेन उक्तस्वरूपेण विना ऋते न नैव स भावलेश इति हेतो: असौ द्रव्यस्तव: अर्थत: अर्थापत्त्या तादृग् अनुमत इति / / 195 / / एतदेव युक्तिपुरस्सरमाह - कार्यं खल्वभिलषताऽनन्तरमपि कारणं समभिलषितम् / आहारजतृप्तिमिवाभिवाञ्छता नूनमाहारः / / 196 / / टीका - कार्य मोक्षलक्षणमेव खलुशब्दोऽवधारणे अभिलषता इच्छता, आस्तां कार्यम् अनन्तरं मोक्षफलकारि महामहोपाध्याय श्री यशोविजय विरचितं 65 मा परिशुद्धिप्रकरणंसटीकम्