________________ टीका - यत्र ग्रन्थविशेषे मुख्योपचाररूपस्तवो मुख्यो निरुपचरितस्वरूपो भावविषयो वक्ष्यमाणलक्षणः, / उपचाररूपो द्रव्यविषयो वक्ष्यमाणस्वरूप: स्तव: पूजा द्विधा द्विप्रकारो द्रव्यभावतो द्रव्यभावाभ्याम्, तथाहि - द्रव्यस्तवो द्रव्यविषयो वक्ष्यमाणभावस्तवानुरागेण जिनोक्तविधिना जिनभवनादिनिर्मापणम्आदिशब्दाज्जिनबिम्बपूजापरिग्रहः, भावस्तव: पुनर्निरतिचार: संयमो वर्ण्यते निरूप्यते उचितक्रमतो गृहिप्रव्रजितापेक्षया स्वस्वयोग्यतानुसारेण सा ग्रन्थपद्धति: कथिता तज्ज्ञैः स्तवपरिज्ञा प्राभृतविशेष इति अनुकर्षे इति / / 189 / / एतदेवाह - भावस्तवो यत्तीनां क्रियाकलाप : स्मृतो निरतिचारः / जिनभवनविधानादि द्रव्यस्तव एव विधिशुद्धम् / / 190 / / टीका - भावस्तवो भावपूजा यतीनां साधूनां क्रियाकलाप: संयमसत्क: स्मृत: कथितो निरतिचार: अतिचारविनिर्मुक्त: संयमव्यापारः / अथ द्रव्यस्तवमाह - जिनभवनविधानादि अनन्तरगाथोक्तस्वरूपं द्रव्यस्तवो द्रव्यपूजा एवकारोऽवधारणे भिन्नक्रमश्च विधिशुद्धं जिनाज्ञानुसार्येव, अविधिकरणे, भगवदाज्ञाविलोपनाद् दुष्टमेव जिनभवनादीनां विधानम् / तत्र चेयमाज्ञा - जिनभवनकरणविधिः शुद्धा भूमिर्दलंच काष्ठादि। भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन / / 1 / / षोडशक - / / 190 / / एतत्स्तवद्वयस्वरूपं ह्यन्योन्यानुविद्धमित्याह - द्रव्यस्तवभावस्तवस्वरूपं ह्यन्योन्यसमनुविद्धं तु / गृहिणोऽपि भावयोगो भगवद्गुणरागतो भूयान् / / 191 / / टीका - यद्यपि व्यवहारनयाभिप्रायेण यतीनां भावस्तवो गृहिणां च द्रव्यस्तवः, तथापि निश्चयनयाभिप्रायेण द्रव्यस्तवभावस्तवरूपम् एतद्वयस्वरूपम् हिशब्दो हेतौ स च योक्ष्यते अन्योन्यसमनुविद्धं तु परस्परसङ्कलितमेव, तथाहि - गृहस्थानां जिनभवननिर्माणादिलक्षणो द्रव्यस्तव: चैत्यवन्दनलक्षणभावस्तवेनानुविद्धो भवति, यत आस्तां यतीनां गृहिणोऽपि गृहस्थस्यापि भावयोगो मनोवृत्तिलक्षणो भगवद्गुणरागतो भुवनगुरुसत्कवीतरागत्वसर्वज्ञत्वविश्वोपकारित्वादिगुणप्रतिबन्धाद्भूयान् प्रचुरमिति / / 191 / / अथ साधुमाश्रित्य स्तवद्वयसमनुविद्धत्वमाह - द्रव्यस्तवश्च साधोरप्यनुमोदनकृतो न नास्तीति / विहित: कायोत्सर्ग: सूत्रे यद् वन्दनाद्यर्थः / / 192 / / टीका - द्रव्यस्तवः पुन: चशब्दः पुनरर्थे, न केवलं गृहिणो साधोरपि यतेरपि अनुमोदनकृत: श्रावकविहितद्रव्यपूजादिदर्शनेन प्रमोदानुमतिविहितो न नास्ति, किन्त्वस्त्येव, इति हेतो: साधोरपि भावस्तवो द्रव्यस्तवेन समनुविद्धमेव। हेत्वन्तरमाह यद् यस्माद् ‘अरिहंत चेइयाणं करेमि काउसग्गं वंदणवत्तियाए पूअणवत्तियाए' / इत्यादि सूत्रे चैत्यवन्दनसूत्रे वन्दनाद्यर्थ: वन्दनपूजनादिनिमित्त: विहितः समादिष्टः अर्हगणधरैः कायोत्सर्गः चेष्टानिरोधलक्षणः / पूजनसत्कारौ च प्रवरपुष्पवस्त्राऽलङ्कारादिभिः क्रियमाणत्वाद् द्रव्यरूपौ, नान्यरूपौ। इदं त्वत्र ध्येयम् - श्रमणोपासकानां द्रव्यप्राधान्यादेव महामहोपाध्याय श्री यशोविजय विरचितं मापिरिशद्धिप्रकरणंसटीकम