________________ अन्यधर्मस्थिता: सत्त्वाअसुरा इव विष्णुना। उच्छेदनीयास्तेषां हि वधे दोषो न विद्यते / / 2 / / तथा - ब्रह्मघातकोऽहमित्यादिवचनात् तद्वेदनीयकर्मक्षय इति। तथा - भोजनं गृह एवैकान्नं तदनुग्रहाय, तथा असिधारादि चैतत् प्रकृष्टेन्द्रियजयाय। निगदसिद्ध सर्वमेतद् नवरं तद्वेदनीयकर्मक्षयः ब्राह्मणजीवगतशातवेदनीयकर्मक्षय इति। एतत्सर्वं पापं पापहेतुत्वाद् बाह्यमनुष्ठानमशोभनमिति / / 186 / / साम्प्रतं तापविशुद्धमाह - जीवादिभाववादो दृष्टेष्टाभ्यां न यः खलु विरुद्धः / / तापविशुद्धः सोऽन्यो द्वाभ्यामपि नैव शुद्धः स्यात् / / 187 / / टीका - यो जीवादिभाववादो जीवाजीवादिपदार्थनिरूपणविशेषः दृष्टेष्टाभ्यां वक्ष्यमाणाभ्यां न नैव खलुशब्दोऽवधारणे विरुद्धः विरोधभाक् स एव जीवादिभाववाद: तापशुद्धः तापेन भवति शुद्धः, अन्य एतेनाऽशुद्धः द्वाभ्यामपि कषछेदाभ्यामपि नैव शुद्धः स्याद् भवेदिति। अयं भाव: - तापेनाऽशुद्ध आगमग्रन्थः कषछेदाभ्यामपि न तत्त्वत: शुद्ध इति / / 187 / / अत्रैव दृष्टान्तमाह - इह सदसदादिरूपे जीवे बन्धादि युज्यते सर्वम् / नानीदृशे तु किञ्चित् वरश्रुतं शुद्धमित्थं तत् / / 188 / / टीका - इह कषछेदतापपरिशुद्धे श्रुतधर्मे सदसदादिरूपे जीवे स्वरूपपररूपाभ्यां सदसद्रूपे आदिपदाद् नित्यानित्याद्यनेकधर्मिणि च द्रव्यपर्यायाभिधेयपरिणामाद्यपेक्षया बन्धादि बन्धमोक्षसुखदुःखादि सर्वं युज्यते घटते, उक्तं च आत्मास्ति स परिणामी बद्धः सत्कर्मणा विचित्रेण / मुक्तश्च तद्वियोगाद्धिंसाऽहिंसादि तद्धेतुः / / 1 / / नानीदृशे नैवाऽन्यथारूपे तुशब्दो विशेषद्योतने किञ्चिद् बन्धादि युज्यते। इत्थम् अनन्तरोक्तप्रकारेण यत्र बन्धादि युज्यते तद्वरश्रुतं जिनोपज्ञं कषछेदतापैः शुद्धम् उपादेयं प्राज्ञेन। इदं त्वत्रध्येयम् - न चस्वसत्त्वमेवाऽन्याऽसत्त्वम्, अभिन्ननिमित्तत्वेसदसत्त्वयोर्विरोधात्, तथाहि-सत्त्वमेवाऽसत्त्वमितिव्याहतं, न च तत्तत्र नास्ति, स्वसत्त्ववदसत्त्वे ' तत्सत्त्वप्रसङ्गादिति पररूपासत्त्वधर्मकं स्वरूपसत्त्वं विशिष्टं भवति, अन्यथावैशिष्ट्याऽयोगात्। इदमुक्तं भवति-न हि येनैव प्रकारेण सत्त्वं तेनैवाऽसत्त्वं, येनैव चाऽसत्त्वं तेनैव सत्त्वम्, किन्तु स्वरूपद्रव्यक्षेत्रकालभावैः सत्त्वं, पररूपद्रव्यक्षेत्रकालभावैस्त्वसत्त्वम्। इत्थं स्वसंवेद्या बन्धमोक्षसुखदु:खादयः प्रतिव्यक्ति विशिष्टा भवन्तीति दुःखाद्युच्छेदनिमित्तंसुखादिप्राप्तिनिमित्तं च प्रयत्नोऽपि न्याय्योभवतीति / / 188 / / ननु केयं द्वारगाथोक्तास्तवपरिज्ञेत्याह मुख्योपचाररूपस्तवो द्विधा द्रव्यभावतो यत्र वर्ण्यते उचितक्रमतः सा कथिता स्तवपरिज्ञेति / / 189 / / महामहोपाध्याय श्री यशोविजय विरचितं 63 मार्गपरिशुद्धिप्रकरणंसटीकम्