________________ टीका - यथा दृष्टान्ते पञ्चसुच समितिषु ईर्यासमित्यादिरूपासु तिसृषु च गुप्तिषु मनोगुप्त्यादिषु सदाऽप्रमत्तेन नित्योद्युक्तेन सता विधिना जिनोक्तेन यतिना साधुना सर्वमेव कार्यम् अनुष्ठानं कर्तव्यं विधातव्यम्, आस्तां ध्यानाध्ययनादि कायिकाद्यपि प्रस्रवणाद्यपि। हिशब्द: पूरण इति / / 182 / / अपि च समुच्चये ये प्रमादजनका: विषयकषायविकथादिलक्षणप्रमादहेतवः, न केवलं साक्षात् परम्परया अपि वासादय: वसत्यादय: आदिशब्दात् स्थानदेशपरिग्रह: तेऽपि त्याज्या वर्जनीयाः। तथा - मधुकरवृत्त्या गृहिकुसुमपीडापरिहारेण भिक्षालब्ध्या एषणाशुद्धभिक्षालाभेन आत्मा संयमदेहः पालनीयः रक्षणीय एव चशब्दोऽवधारणे, नाऽकाले त्याज्य इति / / 183 ।।अत्र व्यतिरेकमाह यत्र प्रमादयोगात् संयमयोगेषु विविधभेदेषु / नो धार्मिकप्रवृत्तिर्बुवते खलु तदननुष्ठानम् / / 184 / / एतेन यत्र बाध्यौ वर्धते नैव विधिनिषेधौ च / छेदेनापरिशुद्धं तं ग्रन्थं प्राहुराचार्याः / / 185 / / टीका - यत्र बाह्यानुष्ठाने प्रमादयोगात् अनादरयोगदुष्प्रणिधानादिलक्षणात् संयमयोगेषु संयमव्यापारेषु विविधभेदेषु विचित्रेषु नो न धार्मिकप्रवृत्ति : अनन्तरोक्तसमितिगुप्तिपालनपूर्विका तद् बाह्यानुष्ठानं बुवते आहुस्तीर्थकरगणधरादयः खलुशब्दोऽवधारणे अननुष्ठानमेव तत्कार्याऽसाधकत्वादिति / / 184 / / एतेन अनुष्ठानाभासेन यत्र आगमग्रन्थे बाध्यौ विरोध्यौ विधिनिषेधौ नैव वर्धते वृद्धिं च प्राप्तुत: तं ग्रन्थं छेदेनापरिशुद्धं छेदाऽशुद्ध, प्राहुः ब्रुवन्ति आचार्याः धर्माऽविरुद्धव्यापारवन्तः। तदुक्तं - आचिनोति शास्त्रार्थमाचारे स्थापयत्यपि / स्वयमाचरेद्यस्तु स आचार्य इति स्मृतः / / 1 / / (सर्वलक्षणसङ्ग्रहः) 1 / 185 / / अत्रैव निदर्शनमाह सङ्गीतकादिकार्ये देवानामुद्यमो यथा नु यतेः / अपि चान्यधार्मिकाणामुच्छेदोऽसभ्यवचनं च / / 186 / / टीका - यथा उदाहरणे देवानाम् अर्हदादीनां सङ्गीतकादिकार्ये वादित्रगीतादिप्रयोजने नुशब्दोऽनुज्ञायां यते: साधो: उद्यम उद्योगः, अपि च समुच्चये अन्यधार्मिकाणां तीर्थान्तरीयाणाम् उच्छेदो विनाशः, असभ्यवचनं वक्ष्यमाणं ब्रह्मघातकोऽहमित्याद्यभिधानं चशब्दाद्भूत्क्षेपादिना कन्दर्पादिकरणम्। एतद्विषयं यदन्यैरुक्तं तद् ग्रन्थकार आह सङ्गीतकेन देवस्य प्रतरावरणवाद्यत: / तत्प्रीत्यर्थमतो यत्नस्तत्र कार्यो विशेषत: / / 1 / / तथा |महामहोपाध्याय श्री यशोविजय विरचितं 62 मार्गपरिशुद्धिप्रकरणंसटीकम्