________________ तथा प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा / प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा / / 1 / / तथा असन्तोऽपि स्वका दोषा: पापशुद्ध्यर्थमीरिताः / न मृषायै विसंवाद-विरहात्तस्य कस्यचित् / / 1 / / तथा ब्रह्मोकारोऽत्र विज्ञेयः अकारो विष्णुरुच्यते / महेश्वरो मकारस्तु त्रयमेकत्र तत्त्वत इति / / 179 / / अन्यत्र त्वेवमुक्तम् अकारो विष्णुरुद्दिष्ट उकारस्तु महेश्वरः। मकारस्तु स्मृतो ब्रह्मा प्रणवस्तु त्रयात्मकः / / 1 / / / / 179 / / अथ छेदमाश्रित्याह- . नित्योद्युक्ततया या संयमयोगेषु विविधभेदेषु / वृत्तिर्धार्मिकसाधोस्तद्बाह्यं स्यादनुष्ठानम् / / 180 / / एतेन विधिनिषेधौ बाध्येते यत्र नैव नियमेन / सम्भवतः परिशुद्धौ बुवते तं छेदपरिशुद्धम् / / 181 / / ... टीका- नित्योद्युक्ततया सदाऽप्रमत्ततया या संयमयोगेषु कुशलव्यापारेषु विविधभेदेषु अनेकप्रकारेषु वृत्ति: वर्तना धार्मिकसाधो: धर्मप्रियस्य यते: तद् अनन्तरोक्तवृत्तिलक्षणं बाह्यं स्याद्भवेद् अनुष्ठानम् / / 180 / / एतेन अनन्तरोक्तानुष्ठानेन विधिनिषेधौ प्राग्व्यावर्णितस्वरूपौ नैव बाध्येते न विरोधमापद्येते अपितु सम्भवतश्च वृद्धि यात: नियमेन अवश्यंतया यत्र यथोदितानुष्ठानप्रतिपादके श्रुतधर्मे तं श्रुतधर्मं तत्प्रतिपादकं वाऽऽगमं परिशुद्धौ छेदपरिशुद्धौ ब्रुवते तीर्थकरगणधरादयः छेदपरिशुद्धं छेदेन परिशुद्धमिति / / 181 / / अत्रोदाहरणमाह - समितिषु पञ्चसु च यथा तिसृषु च गुप्तिषु सदाऽप्रमत्तेन / विधिना यतिना कार्यं कर्तव्यं कायिकाद्यपि हि / / 182 / / अपि च प्रमादजनकास्त्याज्या वासादयः परम्परया / मधुकरवृत्त्या भिक्षालब्ध्याऽऽत्मा पालनीयश्च / / 183 / / महामहोपाध्याय श्री यशोविजय विरचितं 61 मार्गपरिशुद्धिप्रकरणंसटीकम्