________________ तत: तस्मात् परीक्षणीयः कषादिभि: यत्नात् सूक्ष्मधिया विचारणालक्षणाद्, न तु यथाकथञ्चिदिति / / 174 / / कषलक्षणमाह - सूक्ष्मोऽस्त्यशेषविषय: सावध यत्र कर्मणि निषेधः / रागादिकुट्टनसहं ध्यानं च स नाम कषशुद्धः / / 175 / / टीका - यत्र श्रुतधर्मे सूक्ष्मो निपुणः अस्ति विद्यते अशेषविषय: व्याप्त्येत्यर्थः, सावखे पापे कर्मणि अनुष्ठाने निषेधः प्रत्याख्यानं तथा रागादिकुट्टनसहं रागद्वेषादिनिर्दलनसमर्थं ध्यानं ध्येयविषयैकप्रत्ययसन्ततिलक्षणं चशब्दादध्ययनादिग्रहः स एव श्रुतधर्म: नामशब्दो निश्चये कषशुद्धः कषपरीक्षया शुद्ध उत्तीर्ण इति / / 175 / / . इत्थं लक्षणमभिधायोदाहरणमाह - नो कार्या परपीडा यथाऽत्र मनसा गिरा च वपुषा च / ध्यातव्यं च नितान्तं रागादिविपक्षजालम् / / 176 / / टीका - नो न कार्या विधातव्या परपीडा परस्य व्यथा मनसा चित्तेन गिरा च वाचा च वपुषा च कायेन च कारणभूतेन तथा ध्यातव्यं च नितान्तं मुहुर्मुहुर्भावनाविषयकरणीयं रागादिविपक्षजालं रागाद्यशुभभावेन जीवोऽत्यर्थं कर्मणां बन्धको भवति तथा विपक्षे शुभपरिणामे सति कर्मणां क्षपको भवति। तत: अर्थविषये रागभावे अर्थस्योपार्जनादिसङ्क्लेशं, द्वेषे सति चेतनविषये मैत्री तथा मोहे च सति वस्तुस्वभावमित्यादि विपक्षजालं ध्यातव्यम्। एवम्भूतो विधि निषेधो पत्रोपलभ्यते स धर्म: कषशुद्धो विज्ञेय इति / / 176 / / / अथ कषाशुद्धलक्षणमाह - स्थूलो न सर्वविषयः सावध यत्र कर्मणि निषेधः / रागादिकुट्टनसहं न ध्यानाद्येष तदशुद्धः / / 177 / / टीका - यत्र श्रुतधर्मे स्थूल: अनिपुणः, न सर्वविषय: अव्यापक: सावध सपापे कर्मणि अनुष्ठाने निषेधः प्रतिबोध: तथा रागादिकुट्टनसहं रागादिदोषविघटनसमर्थं न नैव ध्यानादि - अक्षरध्यानादि एष श्रुतधर्मः तदशुद्ध H कषाऽशुद्ध इति / / 177 / / अथ कषाशुद्धनिदर्शनमाह - बहुभिः पञ्चभिरेका हिंसाऽत्र यथा मृषा विसंवादे / ध्यानेन ध्यातव्यं तत्त्वमकारादिकं चेति / / 178 / / टीका - यथा निदर्शने अत्र कषाऽशुद्धे श्रुतधर्मे बहुभिः एकेन्द्रियादिभि: एका सङ्ख्यया तथा पञ्चभिः वक्ष्यमाणैः कारणैः हिंसा प्राणातिपातलक्षणा भवति तथा मृषा मृषावादो विसंवादे वास्तव इति, तथा ध्यानेन कारणभूतेन ध्यातव्यं ध्यानविषयकर्तव्यं तत्त्वम् परात्मस्वरूपम् अकारादिकं वक्ष्यमाणं च समुच्चये इति समाप्तौ / / 178 / / अनन्तरोक्तगाथार्थविषयं यदन्यैरुक्तं तदाह - "अनस्थिमतां शकटभरेणैको घात:" महामहोपाध्याय श्री यशोविजय विरचितं 60 मार्गपरिशुद्धिप्रकरणंसटीकम्