________________ एकस्मादेव भव्यत्वस्वभावात् सम्यक्त्वचारित्रादिप्राप्तिस्तथा तत्प्राप्तौ कालादिसमवधानमुपपत्स्यते इति चेद्, न, नानासामर्थ्यस्वभावत्वेन सर्वथैकत्वविरोधात्। आह - स्वभावभेदाद् न भावभेदः, अपि तु विरुद्धस्वभावभेदात्, तत्तत्कार्यजनकत्वाऽजनकत्वे चाऽक्षणिकस्य विरुद्धौ स्वभावौ, उपादानत्वसहकारित्वशक्त्योश्च न विरोध इति चेद्, न, तथाप्यनेकशक्तितादात्म्यानुविद्धकरूपक्षणाद्यभ्युपगमेऽनेकान्ताभ्युपगमोऽनिवारितप्रसर इति / / 168 / / एतदेवाह - नैवं नामान्तरतः स्याद्वादोपगमपर्यवसितत्वात् / एकान्तस्याऽघटना विकल्पत: कात्य॑देशाभ्याम् / / 169 / / टीका - नैवं अनन्तरगाथायां बौद्धेन यथोक्तं तथा नैवाभ्युपगम्यते इत्यर्थः, अत्र हेतुमाह - नामान्तरत: अनेकशक्तितादात्म्यानुविद्धैकरूपाद्यक्षणाभ्युपगमद्वारा व्यपदेशभेदेन स्याद्वादोपगमपर्यवसितत्वाद् अनेकान्तवादस्वीकारपर्यवसानात्। हेत्वन्तरमाह - एकान्तस्य एकान्तकस्वभावस्य अघटनाद् युक्त्याऽनुपपन्नत्वा विकल्पतः कात्य॑देशाभ्याम, तथाहि-स्वलक्षणं वस्तूत्तरक्षणे अन्यसन्ततिगतज्ञानक्षणजनने कात्स्येंन - सामस्त्येन व्याप्रियेत एकदेशेन वेति विकल्पद्वये प्रथमविकल्पे अन्यतरस्यैवोत्पत्तिः, न तूभयस्य, सामस्त्येनैककार्यकरणे व्यग्रत्वात्। द्वितीये तु सिद्धम् एकस्याऽनेकस्वभावत्वम् एकत्वेऽपि देशभेदादिति / / 169 / / ननु नास्ति स्वभावभेदेन सांशतापत्तिः, बीजस्वलक्षण एवान्यस्मिन् क्षणेऽकूरीभवति। नास्त्यत्र कश्चित् स्वभावप्रभावः, तस्यैव तथाभवनात्। एक एव स्वभाव: परसन्ततौ ज्ञानमुत्पादरति। तत: कथं स्वभावभेदेनाऽनेकान्तवादप्रसङ्ग इति चेद्, उच्यते - तस्यैव तथाभवने नो हातुं पार्यतेऽन्वयोऽर्थानाम् / व्यतिरेकोऽपि क्रमिकस्वकार्ययोगादितीयं दिक् / / 170 / / . टीका - तस्यैव यथा मृत्पिण्डस्यैव तथाभवने घटभवने नो नैव हातुम् अपलपितुं पार्यते शक्यते अन्वयो मृत्तिका मृत्तिकेति अनुगताकारा बुद्धिः, व्यतिरेकोऽपि पिण्डश्च घटश्चेति व्यावृत्ताकारा बुद्धिरपि तथा बीजस्यांकूरीभवने न हातुं पार्यतेऽन्वयो व्यतिरेकश्च। न चैतद् वाच्यम् - विरोधादेकं वस्तु नोभयरूपमिति, तथासंवेदनाद्। एतदेवाह - क्रमिकस्वकार्ययोगात् स्थासककोशकुशूलशिवकघटादिक्रमभाविमृत्तिकाकार्यसम्बन्धवद् अंकूरकिशलयपत्रादिबीजकार्ययोगात्। इति एवं मार्गानुसारित्वसम्यक्त्वचारित्रप्रभृतिविभिन्नावस्थासु जीवद्रव्यस्याऽन्वयो हातुंन पार्यते तथैव मार्गानुसारित्वसम्यक्त्वचारित्रलक्षणक्रमभाविभव्यत्वकार्ययोगाव्यतिरेकोऽपि न हातुं पार्यते। एवं सर्वत्रैकानेकनित्यानित्यसदसत्प्रभृतिधर्मेषु इयं दिग्अनुसर्तव्या। इदमुक्तं भवति - अनन्तरोक्तनीत्या द्रव्यरूपेणैकत्वं स्वभावलक्षणगुणपर्यायप्रदेशभेदैश्चाऽनेकत्वम्, एवं द्रव्यरूपेण नित्यत्वं पर्यायरूपेण चानित्यत्वम्, स्वद्रव्यक्षेत्रकालभावैः सत्त्वं परद्रव्यक्षेत्रकालभावैश्चाऽसत्त्वमित्याद्यनन्तधर्मात्मकवस्तुतत्त्वं सूक्ष्मधिया विचारणीयमिति भावः / इदमपिध्येयम् - सकलमपि त्रिलोकीगतं मृदादिद्रव्यमात्मनैव प्रतिक्षणमुत्पादव्ययध्रौव्यात्मकम्, कुलालदण्डादयस्तु घटघटिकाकपालादिविशेषकरणे एव व्याप्रियन्त इति / / 170 / / ततश्च |महामहोपाध्याय श्री यशोविजय विरचितं 58 मार्गपरिशुद्धिप्रकरणंसटीकम्