________________ अभव्यस्वभावे कर्मादीनामभव्यस्वभावं जेतुं व्यापाराभावेऽपि बीजं निदानम् अन्विष्यतां मार्गयताम्। इदमुक्तं भवतिअत्र बीजं तु तथाचित्रस्वभावमृतेऽपरं किञ्चिद् ब्रह्मणाऽपि न वक्तुं पार्यत इति / / 164 / / एतदेव भावयति - तत्रैव तानि किञ्चित् फलमथ जनयन्ति नापरत्रेति / ननु तेष्विव स्वभावो भिदां व्रजेदाश्रयेऽप्येवम् / / 165 / / टीका - अथ विकल्पे तत्रैव भव्य एव तानि कर्मादीनि कारणभावेन किञ्चित् सम्यक्त्वादिलक्षणं फलं कार्यं जनयन्ति निष्पादयन्ति, न नैव अपरत्र अभव्ये, इति हेतोः, ननु आमन्त्रणे, एवं तेष्विव कर्मादिष्विव आश्रयेऽपि कर्मादीनामाधारभूते भव्याऽभव्यलक्षणे जीवेऽपि स्वभावो भव्यत्वाऽभव्यत्वरूपो भिदां भेदं व्रजेत् प्राप्नुयादिति / / 165 / / नन्वेवं विनिगमकाभाव इत्याशङ्क्याह - विनिगमकाभावादपि हेतूनामिति फले मिथोऽपेक्षा / . इत्थमभिप्रेत्यैतत् सम्मत्यां निजगदे सुधिया / / 166 / / टीका- इति अनन्तरोक्तनित्या यथोपादनकारणं स्वकार्यसिद्धौ सहकारिकारणानि अपेक्षते तथा सहकारिकारणानि अपि फलजनने उपादानं परस्परं चापेक्षन्ते। एवं विनिगमकाभावाद् एकतरपक्षपातियुक्तिविरहाद् अपिशब्द: समुच्चये हेतूनां कालादिकारणानां फले कार्यजनने मिथ: परस्परम् अपेक्षा आवश्यकताऽनिवार्या / इत्थम् एवम् अभिप्रेत्य अभिसन्धाय एतद्वक्ष्यमाणलक्षणं सम्मत्यां सम्मतितर्कप्रकरणग्रन्थे निजगदे समगीर्यत सुधिया श्रीसिद्धसेनदिवाकरेणेति / / 166 / / यन्निगदितं तदाह - कालो सहाव णियई पुव्वकयं पुरिसकारणेगंता / मिच्छत्तं ते चेव उ समासओ होंति सम्मत्तं / / 167 / / टीका - काल एवैक: सर्वस्याऽस्य जगत: कारणं तथा स्वभाव एव नियतिरेव पूर्वकृतमेव पुरुषकार एव कारणमेकान्ताद् अपरनिरपेक्षतया कालादीनां कारणत्वेनाऽभ्युपगमा मिथ्यात्वं मिथ्यावादः। त एव कालादय एव तुशब्दो विशेषद्योतने समासत: परस्पराजहद्वृत्तय: कारणतयाऽभ्युपगम्यमाना भवन्ति सम्यक्त्वं प्रतिपद्यन्ते सम्यक्त्वरूपताम्।अयं भाव :- कालादिप्रत्येकैकान्तकारणरूपो मिथ्यावादस्तथा परस्परसव्यपेक्षकालादिकारणलक्षण: सम्यग्वादः / अत्र बहुवक्तव्यं तत्तु सम्मत्यादिग्रन्थतोऽवसेयमिति / / 167 / / अत्र बौद्ध आह - तदपि न चित्रत्वं चेदनेकजननैकस्वभावत्वात् / क्षणिकसमर्थात् स्वफलोपनतेरपि च प्रतिव्यक्ति / / 168 / / टीका - आस्तां सहकारिवशाच्चित्रत्वाभाव:, तदपि तस्मात् समुदयवादादपि स्वभावस्य चित्रत्वं नानात्वंन नैवाभ्युपगम्यते इति शेषः, क्षणिकसमर्थात् कुर्वद्रूपवतोऽर्थात् सकाशात् प्रतिव्यक्ति स्वसन्तानगतोत्तरक्षणं प्रति परकीयसन्तानगतज्ञानक्षणं प्रति च स्वफलोपनते: स्वलक्षणजन्यतत्तत्कार्यनिष्पत्तेः, अत्र हेतुमाह - अनेकजननैकस्वभावत्वात् स्वलक्षणस्य स्वभावैकत्वे सति अपि अनेककार्यजननसामर्थ्यात्। एवं जैनमतेऽपि |महामहोपाध्याय श्री यशोविजय विरचितं 57 मार्गपरिशुद्धिप्रकरणंसटीकम् |