________________ टीका- तथा तेन प्रकारेण अकलितवीर्योल्लास: अनासादितवीर्योल्लास: अनन्तशः अनन्तवारं प्राप्ताद् लब्धात् श्रुतात् श्रुतधर्माद् लभते प्राप्नोति वीर्योल्लासं निरुक्तलक्षणं शुद्धिं सम्यक्त्वादिक्रमेण मुक्तिपर्यवसानां निर्मलतां लभते प्राप्नोति तत एव श्रुतादेवेति न कोऽपि दोष इति / / 160 / / एवमपि कुत:? इत्याह - अस्यैव हि स्वभावो यदतीतेषु श्रुतादियोगेषु / लभते वीर्योल्लासं भव्यः शुद्धिं च बुद्धिं च / / 161 / / टीका - हि हैतौ यस्माद् अस्यैव भव्यसत्त्वस्यैव, न पुनरभव्यसत्त्वस्य, स्वभावः स्वरूपं यद् यथा तस्य यावन्तस्ते श्रुतादियोगास्तावत्सुअतीतेषु व्यपगतेषु श्रुतादियोगेषु द्रव्यश्रुतसम्बन्धिषु ततः स्वभावाद् लभते आसादयति वीर्योल्लासं निरुक्तलक्षणं भव्यः आसन्नसिद्धिकः, तेन वीर्योल्लासेन ग्रन्थिं भित्त्वा शुद्धिं सम्यक्त्वादिलक्षणां बुद्धि च मतिश्रुतादिकेवलज्ञानावसानां च, तत: सिद्ध्यतीति / / 161 / / नन्वेवं भणता भवता स्वभाववादाभ्युपगमेन परित्यक्त: कर्मवाद इत्याशङ्कयाह - नैवं स्वभाववादः स्याद्वादेऽन्तरभवंश्च दोषाय / सहकारिवशाच्चित्रं भव्यत्वं च स्वभावोऽत्र / / 162 / / टीका - न नैव एवं स्वभावादिसमुदायरूपेण हेतुवादे स्वभाववादः उक्तलक्षण: स्याद्वादे अन्योऽन्यापेक्षालक्षणे अन्तर्भवन् समाविशन् दोषाय बाधायै यत: सहकारिवशात् कर्मपुरुषकारादिसहकारिकारणवशात् चित्रं तीर्थकृत्वादिफलभेदप्रभृतिना तथापाकादियोग्यत्वाद्वैविध्यवद्भव्यत्वम् अनादिपारिणामिकभावलक्षणम् एव चशब्दो निर्धारणे स्वभावः उपक्रमणादिरूप: आत्मभूतः स्वो भावः अत्र कार्यकारणभावविचार इति / / 162 / / ननु भव्यत्वमेव चित्रमिति कथमभ्युपेयमित्याशङ्क्याह - तदचित्रत्वे सिद्धेः कालादिभिदा कदापि न घटेत / कर्मादिभिरपि तदुपक्रमे च तच्चित्रता बीजम् / / 163 / / टीका - तदचित्रत्वे तस्य भव्यत्वस्याऽचित्रत्वे तुल्यत्वे ऋषभवर्धमानगौतमादीनां सिद्धेः सिद्धिगमनस्य कालादिभिदा कालक्षेत्रादिभेद: कदापि कस्मिन्नपि काले न नैव घटेत युक्तियुक्त: स्यात्। अथ कर्मादिभिस्तदुपक्रमे कालादिभेदो घटेतेति चेद, उच्यते - कर्मादिभिरपि कर्मपुरुषकारादिभिरपि तदुपक्रमे भव्यत्वपरिपाके च तच्चित्रता भव्यत्वगतचित्रत्वमेव बीजं हेतुः, यस्मात्तच्चित्रत्वमेव कर्मादीनि तथाऽऽक्षिपतीति / / 163 / / अन्यथा - नो चेदभव्यजीवस्वभावमपि तानि किं न विजयेरन् / तद्व्यापाराभावेऽप्यस्मिन्नन्विष्यतां बीजम् / / 164 / / टीका - नो चेद् अन्यथा अभव्यजीवस्वभावमपि तानि कर्मादीनि किं न विजयेरन् ? विजयेरनेव।न च विजयन्ते तस्मात् कालादिभेदेन सिद्धिगमनस्य बीजं चित्रं भव्यत्वमेवाऽभ्युपगन्तव्यम्। ननु कर्मादीनां तद्विजये व्यापाराभाव इति न दोष इति चेद्, उच्यते - आस्तां भव्यस्य सिद्धिगमने कर्मादीनां व्यापारे तद्व्यापाराभावेऽप्यस्मिन् महामहोपाध्याय श्री यशोविजय विरचितं 56 मार्गपरिशुद्धिप्रकरणंसटीकम् |