________________ टीका - भूतार्थश्रद्धानं सद्भूतपदार्थाऽऽस्था सम्यक्त्वं सम्यग्दर्शनं मोक्षबीजम् आद्यमोक्षकारणम् अत्र मौनीन्द्रप्रवचने शुद्धधर्मविचारे वा तदुक्तं - तत्त्वार्थश्रद्धानं सम्यग्दर्शनं (तत्त्वार्थ सूत्र अ.१-२)। तत् सम्यक्त्वं च जीवानां प्रादुर्भवति भूतार्थवाचकात् सद्भूतपदार्थवाचकात् श्रुताद् जिनागमात् सकाशात्। तत् श्रुतं च आप्तस्य क्षीणरागादिदोषस्य वचनं भाषितमेव तुशब्दोऽवधारणेन पुनरपौरुषेयं वचनं पुरुषव्यापाराभावेऽनुपलब्धेरिति / / 156 / / पर आह - ननु तदपि ततो न स्यात्, व्यभिचारस्योपलम्भतो व्यक्तम् / यदनन्तशः श्रुताप्तिः श्रुते श्रुता द्रव्यलिङ्गवताम् / / 157 / / टीका - ननु आक्षेपे तत् सम्यक्त्वम् अपि शब्दः सम्भावनायां भिन्नक्रमश्च ततः श्रुताद् न नापि स्याद् जायेत, व्यभिचारस्य तद्भावभावित्वाभावलक्षणस्य उपलम्भत : अनुभवात्। व्यभिचारं प्रदर्शयति परः - यद् अनन्तश: अनन्तकृत्वः श्रुताप्तिः श्रुतसामायिकस्य प्राप्ति: द्रव्यलिङ्गवतां द्रव्यतो रजोहरणादिलिङ्गधारकाणां यत: सांव्यवहारिकराशिपतितानां सर्वजीवानां ग्रैवेयकेषूपपात: अनन्तशो भणित: स च न विना जिनलिङ्गं, तत्र च सूत्रपौरुष्यादेर्नित्यकर्तव्यतया जिनप्रज्ञप्तत्वात्, श्रुते आगमे श्रुता श्रवणगोचरमागता, तथापि तेषां सम्यक्त्वं न जातमिति / / 157 / / अत्र ग्रन्थकार: प्रतिविधत्ते - ... सत्यं तत्प्राप्तावपि वीर्यं नोल्लसितमेव जीवस्य / हेतुश्च तदुल्लासे प्रायः श्रुतमेव को दोषः? / / 158 / / टीका - सत्यम् अर्धस्वीकारे, तत्प्राप्तावपिश्रुतप्राप्तावपि वीर्यमेव सामर्थ्यमेव कर्मविजयाय तथास्वभावत्वाद् नोल्लसितं नाविर्भूतं जीवस्य द्रव्यलिङ्गिनः, तथापि हेतुश्च कारणं पुन: तदुल्लासे वीर्योल्लासे प्रायो निसर्गतस्तदुल्लासव्यवच्छेदेन बाहुल्यात् श्रुतमेव जिनवचनमेवेति को दोषः? नास्ति कोपि दोष इति / / 158 / / कथमेतदेवमित्याह - असकृदपि क्षाराद्यैः प्राप्तैरप्राप्तवेधपरिणामः / वेधं शुद्धिं च यथा जात्यमणिर्याति तैरेव / / 159 / / टीका - असकृदपि अनेकशोऽपि क्षाराद्यैः क्षारमृत्पाकादिभि: तथास्वभावतया प्राप्तैरपि अवाप्तैरपि अप्राप्तवेधपरिणाम : अनासादितशुद्धिपूर्वरूप: यथा येन प्रकारेण जात्यमणि: पद्मरागादि: तैरेव क्षाराद्यैः वेधं शुद्धिपूर्वरूपं शुद्धिं च नैर्मल्यं च याति प्राप्नोति, दृष्टान्ते जात्यमणिग्रहणाद् दार्टान्तिकेऽभव्यानां तद्व्यवच्छेदो ज्ञेयः, तथा भव्यो वीर्योल्लासं शुद्धिं च श्रुतादेव प्राप्नोतीति / / 159 / / एतदेवाह अकलितवीर्योल्लासस्तथा श्रुतादनन्तश: प्राप्तात् / लभते वीर्योल्लासं भव्य : शुद्धिं च तत एव / / 160 / / महामहोपाध्याय श्री यशोविजय विरचितं 55 मार्गपरिशुद्धिप्रकरणंसटीकम्