________________ टीका - यत्र ग्रन्थविशेषे सम्यग्धर्मविशेष: पारमार्थिकः कषच्छेदतापपरिशुद्धः विधिप्रतिषेधौ कषः, तत्सम्भवपालना चेष्टोक्तिच्छेदः, उभयनिबन्धनभाववादश्च तापः, एतत्त्रिभि: परीक्षालक्षणैः परिशुद्ध: त्रिकोटिदोषवर्जित इत्यर्थः, कथितो वर्णित: तत् सूत्रं नियूं समुद्धृतं दृष्टिवादादेः, नामग्राहमाह - वरश्रुतम् उत्तमश्रुतं स्तवपरिज्ञादि आदिपदाद् नन्द्यादिग्रहणमिति / / 151 / / अथ कषादिस्वरूपमाह प्राणवधप्रभृतीनां प्रतिषेधः पापकारणानां य / ध्यानाध्ययनादीनां यश्च विधिः स खलु धर्मकषः / / 152 / / बाह्यानुष्ठानेन द्वयं न बाध्येत यत्र नियमेन / सम्भवति च परिशुद्धं स पुनर्धर्मे स्मृतच्छेदः / / 153 / / जीवादिभाववादो बन्धादिसाधकश्च तापोऽत्र / एतैः खलु परिशुद्धो धर्मो धर्मत्वमुपयाति / / 154 / / टीका - प्राणवधप्रभृतीनां हिंसामृषावादादीनां पापकारणानां पापस्थानकानां सकललोकसम्मतानां यः प्रतिषेधः परिहारतया निषेध: शास्त्रे, ध्यानाध्ययनादीनां ध्यानं धर्म्यम् अध्ययनं चागमादीनामादौ येषामनशनादीनां ते तथा तेषां यश्च विधिः कर्तव्यतारूपेण तत्रैव शास्त्रे स एव खलुशब्दोऽवधारणे धर्मकष: धर्मसुवर्णपरीक्षायां कषो भवति / / 152 / / बाह्यानुष्ठानेन समितिगुप्त्यादीतिकर्तव्यतारूपेण द्वयं विधिप्रतिषेधलक्षणं न नैव बाध्येत असङ्गतिमापद्येत यत्र उपदेशेऽर्थे वा, तथा - नियमेन अवश्यंतया सम्भवति च शक्यानुष्ठानतया परिशुद्धं निरतिचारं पालनं विधिप्रतिषेधयोः स पुन: धर्मे धर्मसुवर्णपरीक्षायां स्मृत: कथितोऽर्हद्भिः छेदः / / 153 / / यश्च जीवादिभाववादः परिणाम्यात्मकर्मप्रभृतिपदार्थवाद: बन्धादिसाधकश्च बन्धमोक्षादिसाधकश्च शास्त्रे स तापः स्मृतः अत्र धर्मसुवर्णपरीक्षायाम्। एतैः कषच्छेदतापैः परीक्षालक्षणैः खलु शब्दोऽवधारणे परिशुद्ध एव धर्मः श्रुतचारित्रलक्षणो धर्मत्वमुपयाति सम्यग्भवतीति / / 154 / / कषादिपरिशुद्धधर्मे फलाऽविसंवादेन वञ्चनाऽभावाज्जीवो मुक्तिसुखानुबन्धीनि सर्वाणि कल्याणानि प्राप्नोतीत्याह - कल्याणान्यत्र स्युः पुंसः सम्प्राप्तमोक्षबीजस्य / सुरमनुजेशसुखानि प्रतिपूर्णसुखानुबन्धीनि / / 155 / / टीका - कल्याणानि श्रेयांसि च अत्र परिशुद्धधर्मे स्युः जायेरन् पुंसः सत्त्वस्य सम्प्राप्तमोक्षबीजस्य अआप्तसम्यक्त्वस्य निराशंसभावात् सुरमनुजेशसुखानि देवेन्द्रनरेन्द्रशर्माणि प्रतिपूर्णसुखानुबन्धीनि शिवशर्मानुबन्धीनीति / / 155 / / मोक्षबीजमाह - भूतार्थश्रद्धानं सम्यक्त्वं मोक्षबीजमात्राहुः / भूतार्थवाचकात्तच्छुतात्तदाप्तस्य वचनं तु / / 156 / / महामहोपाध्याय श्री यशोविजय विरचितं 54 मार्गपरिशुद्धिप्रकरणंसटीकम्