________________ अनुयोगं गुरुणाऽथो शिष्योऽनुज्ञापयेच्च वन्दित्वा / अभिमन्त्र्याऽक्षान् देवान् वन्देत गुरुस्ततो विधिना / / 139 / / सनमस्कारनन्दीमाकर्षयति स्थितोऽथ परिपूर्णाम् / शिष्यः शृणोति भावान्नन्दीमाकृष्य भणति गुरुः / / 140 / / टीका - अथो माङ्गल्ये शिष्यो विनेयो गुरुं वन्दित्वा गुरुणा आचार्येण अनुज्ञापयेच्च अनुयोगम्। ततो गुरुः सूरिमन्त्रेण अक्षान् चन्दनकान् अभिमन्त्र्य वन्देत देवान् चैत्यानि।अथ गुरुः आचार्य: स्थित एवोर्ध्वस्थानेन विधिना सूत्रोक्तविधिना सनमस्कारनन्दी नमस्कारमहामन्त्रपूर्व नन्दीसूत्रम् आकर्षयति पठति परिपूर्णां सम्पूर्णा ग्रन्थपद्धति शिष्यश्चोर्ध्वस्थानेन स्थित: सन् विधिगृहीतमुखवस्त्रिकास्थगितवदनकमलः शृणोति निशाम्यति भावात् शुद्धाशयादुपयुक्तः सन्। ततो नन्दीमाकृष्य नन्दी पठित्वा भणति गुरुः वक्ष्यमाणम् / / 139-140 / / गुरुवचनमाह अनुयोगमस्य साधोः क्षमाश्रमणहस्ततोऽहमनुजाने / पर्यायद्रव्यगुणै: सोऽनुज्ञातोऽथ वन्दित्वा / / 141 / / सन्दिशत किं भणामीत्यादि प्राग्वद्वदेदिह विशेषः / अधिकाशीरन्येषां धारय सम्यक् प्रवेदय च / / 142 / / टीका - क्षमाश्रमणहस्तत: प्राक्तनऋषीणां हस्तेन, न स्वमनीषिकया अहम् अस्य उपस्थितस्य साधो: अनुयोगं जिनागमव्याख्यानं पर्यायद्रव्यगुणैः छान्दसत्वाद् द्रव्यगुणपर्यायैर्व्याख्याङ्गरूपैः अनुजाने अनुयोगस्यानुज्ञां वितरामीत्यर्थः। अथ आनन्तर्ये सोऽनुज्ञात: अनुयोगाऽनुज्ञाप्राप्तो वन्दित्वा भणति - सन्दिशत यूयं किं भणामि? इत्यादिवचनजातं प्राग्वत् सामायिकचारित्रप्रतिपत्तिवद् द्रष्टव्यम्। विशेषस्तु काशते शोभत इति काशी: अभिनवाचार्येणाधिक: काशी: अधिकाशी: वदेदिह गुरुर्भणति, तद्यथा - सम्यग्आचारासेवनेन धारय अन्येषां च सम्यगेव प्रवेदयाऽनुयोगमिति / / 141-142 / / ततः - ..... गुरुरूपविशति कृतत्रिप्रदक्षिणे शिष्यके तनूत्सर्गे। विहिते चानुज्ञार्थे सनिषद्यगुरुं प्रदक्षिणयेत् / / 143 / / टीका - कृतत्रिप्रदक्षिणे त्रिप्रदक्षिणीकृते शिष्यके विनये सति ततो गुरुरुपविशति आचार्यो निषद्यायां निषीदति, अत्रान्तरे विहिते कृते चानुज्ञार्थे तनूत्सर्गे कायोत्सर्गे गुरुणा, शिष्यः सनिषद्यगुरुं निषद्यायामुपविष्टं गुरुं त्रि: प्रदक्षिणयेत् त्रिप्रदक्षिणं वन्देतेति / / 143 / / तत उपविष्टस्य गुरुस्त्रीन् वारान् स्वान्तिके सुशिष्यस्य / कथयति मन्त्रपदानि स्वपरम्परयाऽऽगतानि / / 144 / / टीका - ततः स्वान्तिके गुरुदक्षिणपाधै उपविष्टस्य तनिषद्यायामेव निषण्णस्य सुशिष्यस्य अनुयोगानुज्ञार्हस्य गुरु: आचार्यः कथयति कर्णमूले श्रावयति त्रीन् वारान् स्वपरम्परयाऽऽगतानि आचार्यपारम्पर्येणाऽऽयातान्येव महामहोपाध्याय श्री यशोविजय विरचितं 51 मार्गपरिशुद्धिप्रकरणंसटीकम्