________________ मन्त्रपदानि विधिना सर्वार्थसाधकानीति / / 144 / / तथा - दत्ते सुगन्धमुष्टींस्त्रीनक्षाणां प्रवर्धमानांश्च / तद्ग्राहिणं च शिष्यं स्वनिषद्यायां निवेशयति / / 145 / / टीका - गुरुः दत्ते प्रयच्छति त्रीन् प्रति मुष्टिं प्रवर्धमानान् सुगन्धमुष्टीन् सुरभिगन्धसहितानाम् अक्षाणां चन्दनकानां, शिष्यश्चोपयुक्तः सन् विधिना गृह्णाति। एवं व्याख्यानाङ्गरूपानक्षान् दत्त्वा निषद्याया: उत्तिष्ठति आचार्य:, तद्ग्राहिणम् अक्षमुष्टिग्राहिणं च शिष्यम् अभिनवाचार्य स्वनिषद्यायां गुरुनिषद्यायां निवेशयति उपवेशयतीति / / 145 / / ततः - तं वन्दतेऽथ समुनिर्गुरुः स्वशक्त्या स देशनां दत्ते / तुल्यगुणदीपनार्थ नैतद् दुष्टं द्वयोरपि हि / / 146 / / टीका - अथ आनन्तर्येतं गुरुनिषद्यायामुपविष्टमभिनवाचार्य वन्दते प्रणमति समुनिः सन्निहिताऽशेषसाधुभिः सहित: गुरु: आचार्यः / वन्दित्वा तं भणति च गुरुः कुरु व्याख्यानमिति। तत: सोऽभिनवाचार्यो गुरुनिषद्यायां स्थित एव स्वशक्त्या यथाशक्ति देशनां नन्द्यादिविषयां पर्षदं वा ज्ञात्वाऽन्यविषयामपि दत्ते प्रयच्छति। न नैव एतद् गुरुनिषद्यायामुपवेशनं च शिष्यस्य गुरुणा च वन्दनं दुष्टं दोषावहं द्वयोरपि गुरुशिष्ययोरपि हि हेतौ यस्मात् तुल्यगुणदीपनार्थं लोकानां शिष्यगतस्वतुल्यगुणख्यापनार्थं जीतमेतदिति / / 146 / / प्रणमन्ति ततो मुनयो गुरुस्ततः स्वासनस्थितस्तस्य। कुरुते गुणप्रशंसामन्ये तु प्रथममेवाहुः / / 147. / / टीका - ततो व्याख्यानसमनन्तरं प्रणमन्ति वन्दन्ते मुनयः साधवः। उत्तिष्ठति च तत: पुनर्निषद्यायाः अभिनवाचार्यः। तत: गुरुः मौलाचार्य: स्वासनस्थितः स्वनिषद्यायां निषण्ण: सन् तस्य अभिनवाचार्यस्य कुरुते विदधाति गुणप्रशंसां गुणानामुपबृंहणम्। अन्ये आचार्या: तुशब्दो विशेषद्योतने प्रथममेव व्याख्यानादौ गुणप्रशंसाम् आहुः कथयन्तीति / / 147 / / गुणप्रशंसामाह - अयमनुयोगी प्राज्ञः प्रवचनकार्येषु नित्यमुद्युक्तः / योग्येभ्यो व्याख्यानं दद्यात् सिद्धान्तविधिनैव / / 148 / / टीका - अयम् अभिनवाचार्य: अनुयोगी जिनवचनव्याख्याता प्राज्ञः पण्डितः प्रवचनकार्येषु जिनशासनप्रयोजनेषु नित्यं सदा उद्युक्त: उद्यतो योग्येभ्य: वक्ष्यमाणमाध्यस्थ्यादिगुणगणोपेतेभ्य: व्याख्यानं वक्तृत्वं दद्यात् प्रयच्छेत् सिद्धान्तविधिना वक्ष्यमाणेन, न पुन: स्वमनीषिकयेति / / 148 / / श्रवणयोग्यानाह - मध्यस्था बुद्धियुताः प्राप्ता धर्मार्थिनश्च योग्याः स्युः / इह मार्जनादिपूर्वं विषयप्रज्ञापना च विधिः / / 149 / / महामहोपाध्याय श्री यशोविजय विरचितं 52 मार्गपरिशुद्धिप्रकरणंसटीकम्