________________ टीका - हि हैतो यस्माद् अविनिश्चित: अज्ञाततत्त्वो न नैव भवेद् जायेत अपवादो विशेषस्थितिश्च उत्सर्गश्च सामान्यमर्यादा अपवादोत्स! तयोः पृथक् पृथक् विषयस्तं वेत्तीति अपवादोत्सर्गविषयविद्।अत एव अविषयदेशनया च परस्थानदेशनया च विश्वविश्वहितकरगभीरजिनवचनस्य लाघवापादनात् स्वपरविनाशी कूटवैद्यवत् स: अविनिश्चितो नियमेन अवश्यंतया भवति। तस्मात्तस्यैव हितार्थं तथा तद्भाविशिष्याणामनुमोदकानां च तथाविधाज्ञप्राणिनां तथाऽऽत्मनश्च हितार्थं धीरो गुरुर्योग्यविनेयायाऽनुजानाति वक्ष्यमाणेन विधिनाऽनुयोगमिति / / 134 / / विधिमेवाह - अनुयोगविधिश्चायं सुतिथौ गुरुरुपविशेन्निषद्यायाम् / रचितायां कथितायां पुरतः शिष्यो यथाजातः / / 135 / / टीका - अनुयोगविधिश्च अनुयोगानुज्ञाविधिश्च अयं वक्ष्यमाणः - सुतिथौ सम्पूर्णशोभनतिथौ उपलक्षणात् शोभननक्षत्रादौ गृहीते काले विधिना निवेदिते चैव गुरोनिषद्यारचनमुचितभूमौ ततो मनागुच्चैरक्षाणां निषद्यारचनं तत्र चाक्षनिक्षेपः, तदनन्तरं निषद्यारचकेन साधुना कथितायां प्रवेदितायां रचितायां निषद्यायां गुरु: आचार्य उपविशेद् निषीदेत्। पुरतश्च तिष्ठति शिष्यः असम्भ्रान्त: प्रक्रान्त: यथाजात: रजोहरणमुखवस्त्रिकादिधरः / / 135 / / तत: उपकरणत उपयुक्तस्ततो गुरुः प्रत्युपेक्षते विधिना / मुखवस्त्रिका सशिष्यः सशिर : कायं तया चापि / / 136 / / टीका - तत उपकरणत: इन्द्रियाऽनिन्द्रियैः उपयुक्तः सम्प्रणिहितः स्वस्थ इत्यर्थः गुरु: आचार्य: सशिष्य : अनुयोगानुज्ञार्थप्रस्तुतेन शिष्येण सह विधिना सूत्रविधिना प्रत्युपेक्षते प्रतिलिखति मुखवस्त्रिका, तया च मुखवस्त्रिकयैव सशिर : मस्तकेन सह कायमपि शरीरमपि प्रत्युपेक्षत इति / / 136 / / तत: - आवर्तीदशभिर्वन्दनदानेन भणति शिष्योऽथ / सन्दिशत स्वाध्यायं स्वस्था: प्रस्थापयाम इति / / 137 / / टीका - आवतॆदिशभिर्वन्दनदानेन द्वादशावर्तवन्दनेन वन्दित्वा गुरुं भणति प्रार्थयति शिष्यो विनेयः अथशब्द आनन्तर्ये, किं भणति? सन्दिशत स्वाध्यायं स्वस्थाः सुप्रणिहिता: प्रस्थापयामः प्रकर्षेण वर्तयाम इति / / 137 / / तत: प्रस्थापयेत्यनुमते प्रस्थापयतो ह्युभौ ततश्च गुरुः। तिष्ठेन्निवेदितेऽस्मिन् प्रस्थापयतोऽनुयोगं द्वौ / / 138 / / टीका - प्रस्थापय इति गुरुणा अनुमते अनुज्ञाते सति उभौ हि गुरुशिष्यौ द्वावपि स्वाध्यायं प्रस्थापयतः। ततश्च स्वाध्याये च प्रस्थापिते सति गुरु: आचार्य: तिष्ठेद् निषीदेत् स्वनिषद्यायां, तत: शिष्यो निवेदयति स्वाध्यायं, निवेदितेऽस्मिन् स्वाध्याये सति उपयुक्तौ सन्तौ प्रस्थापयतो विधिना अनुयोगं जिनवचनव्याख्यानं द्वावपि गुरुशिष्यौ / / 138 / / ततश्च - |महामहोपाध्याय श्री यशोविजय विरचितं 50 मार्गपरिशुद्धिप्रकरणंसटीकम्