________________ टीका - उपस्थापनाविधिना व्रतसम्पन्नाश्च मुनिमहाव्रतसम्पन्नाः पुन: एवं गुर्वासेवनादिना कालेन ‘तिवरिसपरिआगस्स उआयारपकप्पणामज्झययणमित्यादिकालक्रमेण ग्रहणशिक्षातो गृहीतसकलसूत्रार्था: कालोचिताऽधीतसमस्तसूत्रार्था: तदात्वानुयोगवन्त इत्यर्थः, एवम्भूता महानुभावा अनुयोगानुज्ञाया अनुयोगो जिनागमव्याख्यानं तस्यानुज्ञा यदुत भवता कर्तव्यं व्याख्यानं सदाऽप्रमत्तेन सर्वत्र समवसरणादौ विधिना, न यथाकथञ्चित्, तस्या आचार्यपदस्थापनारूपाया इत्यर्थः योग्याः समर्था भणिता: निरूपिता जिनवरेन्द्रैः अर्हद्भिरिति / / 130 / / कस्मादित्याह - भाषा मृषाऽन्यथा तु प्रवचननिन्दा च शिष्यगुणहानिः / तीर्थोच्छेदश्चेति स्वल्पाध्ययने न योग्यत्वम् / / 131 / / टीका- अन्यथा कालोचितसकलसूत्रार्थाऽभावे तुशब्दो विशेषद्योतने एतदनुज्ञावचनलक्षणा भाषा गुरोरनुजानतो वसन्तनृपे नृपवचनमिव निर्विषयत्वाद् मृषाअसत्याऽऽपद्यते। न च यावत्तावदधीतमित्येतदालम्बनीयम्, स्वल्पसूत्रार्थस्य श्रावकादिभिरप्यधीतत्वेनाऽतिप्रसङ्गात्। तथा - प्रवचननिन्दा, तथाहि - अनुयोगी लोकानां संशयनाशको भवतीति तं तेधर्मपरिज्ञायोपयान्ति।सचाऽल्पश्रुत एकान्तेनाऽनभिज्ञः सन्बन्धमोक्षादिसूक्ष्मतत्त्वं नैव सम्यगनिरूपयति। यत्किञ्चिद्भाषक तं दृष्ट्वा विदुषां जायतेऽवज्ञा प्रवचने, प्रवचनधरोऽयमिति कृत्वा।अहो! असारमेतद् यदयमभिज्ञः सन्नेवमाहेति प्रवचनखिसा। च समुच्चये, शिष्यगुणहानिः सन्नायकाभावेन तुच्छत्वान्न स्वतो मिथ्याभिमानान्न परतोऽपि ज्ञानादिगुणसम्प्राप्तिरिति शिरस्तुण्डमुण्डनादिकं सर्वमनर्थकं भवतीति। तीर्थोच्छेदश्च भावेन तत: सम्यग्ज्ञानाद्यप्रवृत्त्या मोक्षलक्षणतीर्थफलाभावाद् इति हेतोस्तस्मात् स्वल्पाध्ययने अल्पश्रुते न नैव योग्यत्वम् अर्हतेति / / 131 / / यत एवं तस्मात् सुविनिश्चितसूत्रार्थस्य युक्तोऽयमित्याह - कालोचितसूत्रार्थे तस्मात् सुविनिश्चितस्य युक्तोऽयम्। श्रवणादेव न यदियं सम्मत्यां सिद्धसेनोक्तिः / / 132 / / टीका - यस्मात् स्वल्पश्रुतेऽनुयोगानुज्ञायां तीर्थोच्छेदादिका महादोषा: तस्मात् कारणात् कालोचितसूत्रार्थे तत्तत्कालीनस्वपरसमये सुविनिश्चितस्य ज्ञाततत्त्वस्य युक्तः उचित: अयम् अनुयोगः, न नैव श्रवणादेव श्रवणमात्रेणैव यद्यस्माद् इयं वक्ष्यमाणा सम्मत्यां सम्मतितर्कप्रकरणे सिद्धसेनोक्तिः सिद्धसेनाऽऽचार्यवचनमिति / / 132 / / तदुक्तिमेव दर्शयति - जह जह बहुस्सुओ सम्मओ अ सीसगणसंपरिवुडो अ / अविणिच्छिओ अ समए, तह तह सिद्धंतपडिणीओ / / 133 / / टीका - पञ्चसूत्रगतैवात्र लिख्यते - यथा यथा बहुश्रुतः श्रवणमात्रेण सम्मतश्च तथाविधलोकस्य शिष्यगणसम्परिवृतश्च किमित्याह - बहुमूढपरिवारश्च, अमूढानां तथाविधापरिग्रहणाद्, अविनिश्चितश्च अज्ञाततत्त्वश्च समये सिद्धान्ते तथा तथाऽसौ वस्तुस्थित्या सिद्धान्तप्रत्यनीक: सिद्धान्तविनाशक: तल्लाघवापादनादिति / / 133 / / एतदेव भावयति अविनिश्चितो हि न भवेदपवादोत्सर्गविषयवित् सम्यक् / अविषयदेशनया च स्वपरविनाशी स नियमेन / / 134 / / महामहोपाध्याय श्री यशोविजय विरचितं 49 मार्गपरिशुद्धिप्रकरणंसटीकम्