________________ चारित्रविघ्नविजयार्थं भणितमिति / / 126 / / अत्रैवाऽपवादमाह - नित्यवसतिरपि परिणतगुर्वादीनां तु कारणेन स्यात् / / द्रव्यत एव न भावादागमयतना विशुद्धधियाम् / / 127 / / टीका - आस्तां नवकल्पविहार: चारित्रविघ्नजयार्थं नित्यवसतिरपि एकत्र बहुकाललक्षणो नित्यवासोऽपि परिणतगुर्वादीनां वय:पर्यायज्ञानादिना परिणतानामाचार्योपाध्यायस्थविरादीनां तुशब्दो विशेषद्योतने कारणेन क्षीणजंघाबलत्वादिलक्षणेन पुष्टालम्बनेन स्याद् भवेद्रव्यत एव अपरमार्थाऽवस्थानरूपेण न तुभावात् परमार्थतो यतस्तस्मिन् नित्यवासेऽपि तेषां गुर्वादीनां विशुद्धधियां संविग्नगीतार्थानां जिनाज्ञापारतन्त्र्येण रागरहितत्वादेव आगमयतना यथासम्भवं संस्तारकादिपरावर्तनलक्षणा ऋतुबद्धे मासे वर्षाषु च चतुर्षु मासेषु ज्ञेयेति / / 127 / / अथ कथाद्वारमाह - स्वाध्यायादिश्रान्तः कुर्याच्च कथां दशार्णभद्रादेः। विश्रोतसिकारहितः स्वपरस्थिरताकरी नित्यम् / / 128 / / टीका - स्वाध्यायादिश्रान्तः स्वाध्यायवैयावृत्त्यादिखिन्नः कुर्याच्च विदधीत पुन:, उपलक्षणात् श्रृणुयाच्च कथां वार्ता नित्यं नियमाद् दशार्णभद्रादे: आदर्शभूतमहात्मनः, आदिपदात् सुदर्शनस्थूलभद्रवज्रस्वाम्यादिग्रहणं स्वपरस्थिरताकरी कथनश्रवणद्वारा निरतिचाराचारानुमोदनाद् अहमपि तत्कुलवर्तीति निर्धारणाच्च जन्मान्तरेऽपि विश्रोतसिकारहित: विकथापरिहारात् संयमानुसारिचेतोविघातवर्जित: स्यात्। एवं गुर्वासेवनादिना दुर्लभं लब्धं चारित्रपरिणामं रक्षेद अलब्धं वा गोपेन्द्रवाचकादिरिव प्राप्नुयादिति / / 128 / / एतदेवाह - नोपस्थापनयैव, हि चरणं यद् द्रव्यतोप्यभव्ये सा / प्रायस्तयाऽनुभावाद् एतद्विधिना इदमिति तत्त्वम् / / 129 / / टीका - न हि नैव उपस्थापनयैव मुनिव्रतारोपणमात्रेण चरणं यद् यस्माद्रव्यत: भावशून्यक्रियामात्रतः . अपरमार्थरूपेण अभव्येऽपि अङ्गारमर्दकादावपि सा उपस्थापना। नन्वेवं स्थिते किमनेनोपस्थापनाविधिनेत्याशङ्कयाह - प्रायो बाहुल्येन एतद्विधिना उपस्थापनागतेन तया उपस्थापनया कारणलक्षणया अनुभावात् कार्यलक्षणात् फलत इत्यर्थः, इदमिति छेदोपस्थाप्यं चारित्रमिति यदि वा तया उपस्थापनापूर्वकम् एतद्विधिना गुर्वासेवनादिलक्षणेन चारित्रमिति तत्त्वं रहस्यम्। इदमुक्तं भवति - उपस्थापनागतविधिना प्रायो जायते छेदोपस्थाप्यं चारित्रमिति व्यवहारनयार्पणया दशवैकालिकाद्यध्ययनाद्यनन्तरमुपस्थापनाया नियम: कृत: सूत्रे, अन्यथा सामायिकमात्रतोऽपि सिद्धिं गता अनन्ता इत्युपस्थापनानियमवैयर्थ्यापत्तेः। वस्तुतस्तु सामायिकचारित्रवतोपस्थापनाविधिना छेदोपस्थाप्यं चारित्रमङ्गीकर्तव्यं तदङ्गीकृत्य च गुरुगच्छवासासेवनादिविधिना प्राप्तं प्रधानमोक्षसाधनं चारित्रंरक्षणीयमप्राप्तं वा यथाख्यातादिप्रकारं चारित्रं प्राप्तव्यमिति / / 129 / / साम्प्रतमनुयोगाऽनुज्ञाविधिमाह - व्रतसम्पन्नाश्चैवं कालेन गृहीतसकलसूत्रार्थाः / अनुयोगानुज्ञाया योग्या भणिता जिनवरेन्द्रैः / / 130 / / | महामहोपाध्याय श्री यशोविजय विरचितं 48 मार्गपरिशुद्धिप्रकरंणंसटीकम्