________________ ___ एवमादाय मेहावी, पंकभूयाउ इथिओ। * नो ताहि विणिहन्नेज्जा, चरेज्जऽत्तगवेसए / / 17 / / (उत्तराध्ययन अ. 2 गा. 18) - अपि च - थेवहियओ, अविवेगभायणं, अविमिस्सयारी, चञ्चलसहावो, पभवन्तमच्छरी, असग्गाहनिरओ, पच्छाणुयावी महिलायणो होइ / / (समराइच्च कहा पृ.२२५) तथा - अहवा अविवेयबहुले इत्थियाजणे, इत्थिआ हि नाम निवासो दोसाणं, निमित्तं साहसाणं, उप्पत्ती कवडाणं, खेत्तं मुसावायस्स, दुवारं असेयमग्गस्स, आययणमावयाणं, सोवाणं नरयाणं, अग्गला कुसलपुरपवेसस्स / पृ.२५३ / / तथा - अहो महिलिया नाम अभूमी विसलया, अणग्गी चुडुली, अभोयणा विसूइया, अणामिया वाही, अवेयणा मुच्छा, अणुवसग्गा मारी, अणियला गोत्ती, अरज्जुओ पासो, अहेडओमच्चु त्ति। पृ.२९४ / अहवा दुदुगुंठो विय उम्मग्गपत्थिया, किंपागफलभोगोविय मङ्गुलावसाणा, दुस्साहियकिच्च व्व दोसुप्पायणी, कालरत्ती विय तमोलित्ता, ईइसा चेव महिलिया होइ / अवि य - जलणो विघेप्पइ सुहं पवणो भुयगो य केणइ नएण / * महिलामणो न घेप्पइ बहुएहि विनयसहस्सेहिं / / 1 / / अहवा मइरा विय मयरायवड्डणी चेव इत्थिया हवइ त्ति / (स.क.पृ.५५३-५४) अपि च - स्त्रीजनस्याऽशुचित्वं, अनुत्तमत्वानीचगामित्वं, सन्ध्याभ्रतुल्यनिसर्गास्थिररागतां, अतिनिकृतिप्रधानत्वं भावयन् ततश्च विरक्तस्य प्रशमादिगुणलाभः, परलोके च तद्विरागबीजात् शारीरिकमानसानेकदुःखमोक्षं सदासौख्यम्। . एवं भावयत: क्षीयते क्लिष्टकर्म ततश्च नियमाच्चरणविशुद्धिः। ___ भावनाविषय एवायं व्यापकविधिः, तथाहि - यो येन दोषेण बाध्यते तद्विपक्षं भावयेत्, यथा धनादिषु रागभावे तदुपार्जनरक्षणनाशदुःखं तदभावश्च धर्महेतुः, द्वेषे मैत्री, मोहे वस्तुस्वभावं, क्रोधे क्षमा, माने मार्दवं, मायायामार्जवं, लोभेऽलोभमित्यादि। तदुक्तं - कषायादिदोषजयोपायास्तत्तद्दोषप्रतिपक्षसेवादिना स्यात्। तत्र क्रोध: क्षमया, मानो मार्दवेन, माया आर्जवेन, लोभ: सन्तोषेण, रागो वैराग्येण, द्वेषो मैत्र्या, मोहो विवेकेन, काम: स्त्रीशरीराशौचभावनया, मत्सर: परसम्पदुत्कर्षेऽपि चित्ताऽबाधया, विषया: संयमेन, अशुभमनोवाक्काययोगा गुप्तित्रयेण, प्रमादोऽप्रमादेन, अविरतिर्विरत्या च सुखेन जीयते। श्राद्धविधि प्रकाश 2 पृ८ / / 125 / / अथ विहारद्वारमाह - मासादिविहारेण च विहरेदादिस्तु वक्ति कार्येण / न्यूनत्वादि विहारध्रौव्यं त्विह मोहशान्त्यर्थम् / / 126 / / अत्र प्रस्तावे पर आह - गुरुविहारात् सिद्ध एव साधूनां विहारस्तर्हि किमिति पृथगुपादनमस्य ? अत्रोच्यते - आदित एवारभ्य शिक्षकाणां स्वक्षेत्रादौ प्रतिबन्धवर्जनार्थं विधिग्राहणार्थं तथाविधानां चाऽपरिणामकादीनां विहरणशीलानां वा साधूनां कृतेऽस्य पृथग् विधानम्। अथ प्रस्तुतमाह - चेतनाऽचेतनसर्वभावेषु सदाऽप्रतिबद्धः सन् गुरूपदेशेन मासादिविहारेण यथोचितं विहरेत् विचरेत्। आदि: आदिशब्द: तुशब्दो विशेषद्योतने वक्ति कथयति यदुत कार्येण तथाविधज्ञानादिप्रयोजनत: न्यूनत्वादि न्यूनाऽधिकभावमपि। यद्येवं तर्हि किमर्थं विहारध्रौव्यम्? उच्यते - विहारध्रौव्यं विहारस्य नैयत्यं तुशब्दो विशेषद्योतने इह प्रव्रज्यापालनोपायप्रक्रमे मौनीन्द्रप्रवचने वा मोहशान्त्यर्थं | महामहोपाध्याय श्री यशोविजय विरचितं 47 गार्गपरिशुद्धिप्रकरणंसटीकम्