________________ विपाकदारुणो भवति।अत एव येऽतिचारेष्वकृतप्रतिकारा: प्रमादिनस्तेषां पुनस्तद्धर्मचरणं चिन्तासमन्वितं न भवति दुर्गृहीतशरोदहारणेन, तद्यथा-शरो यथा दुर्गृहीतो हस्तमेवावकृन्तति तथा श्रामण्यमपि दुष्परामृष्टं नरकानुपकर्षति। तस्मादनिष्टफलं द्रव्यरूपंधर्मचरणं तेषां भणितं मनीषिभिः, तथाहि - क्षुद्रातिचाराणां मनुष्यतिर्यग्योनिषु स्त्रीत्वदारिद्र्यादि अशुभफलम्, महातिचाराणां पुनर्नरकादिषु गुरुकं तदशुभफलमिति / / 123 / / उपसंहरनाह - इत्थं विचारत: स्यात् संवेगातिशयतश्चरणवृद्धिः / दुष्टान्यथा प्रवृत्तिः सम्मूर्छनजप्रवृत्त्याभा / / 124 / / टीका - इत्थम् अनन्तरोक्तनीत्या विचारत: अर्थपदचिन्तात: स्याद् भवेत् संवेगातिशयत: तत्त्वनिश्चयेन निश्चलतल्लिप्साप्रकर्षात् चरणवृद्धिः चारित्रस्फाति:, अन्यथा विचारशून्या प्रवृत्तिः द्रव्यरूपेण धर्मचरणलक्षणा दुष्टा अनिष्टफलत्वात् सम्मूर्छनजप्रवृत्त्याभा सम्मूर्छिमप्राणिप्रवृत्तितुल्या जडतया भवति। ननु त्यक्तगृहवासानां प्रव्रज्यायामपि किं विचारशून्याप्रवृत्तिर्भवति? भवत्येव। तदुक्तं - अन्नेसि तत्तचिंता देसाणाभोगओ य अन्नेसि / दीसंति य जइणो वित्थ केइ संमुच्छिमप्पाया / / 15 / / (विंशतिविंशिकाप्रकरणे तृतीया विंशिका) / / 124 / / अथ भावनाद्वारमाह - इत्थं यतमानोऽपि स्त्रीरागेणाऽभिबाध्यते स यदा / भावयति तदा सम्यग् विषयस्त्रीसङ्गवैषम्यम् / / 125 / / टीका- इत्थम् उक्तप्रकारेण गुरुगच्छवासवसत्यादिषु। यतमानोऽपि उद्यच्छन्नपि कर्मदोषेण यदा यस्मिन् काले स्त्रीरागेण स्त्रीविषयकेणाऽभिष्वङ्गेन, प्रेक्षावतामपि प्रधानमिदमेव बन्धकारणमिति स्त्रीग्रहणम् अभिबाध्यते अभिभूयते स मुनि: तदा तस्मिन् काले, यदि वा विहितानुष्ठानमिति भावयति पुन:पौन्येन परिशीलयति विषयविषागदभूता लोके सर्वत्राऽऽस्थांविघातिनी: प्रशमरसजननी: अनित्यादिभावनाः / यदा तु स्त्रीरागेणाऽभिबाध्यते तदा विशेषेण सम्यग् अवितथं विषयस्त्रीसङ्गवैषम्यं विषयाच शब्दादयस्तदाधारभूताश्च स्त्रियो विषयस्त्रियस्तासु सङ्गः अभिष्वङ्गस्तस्य वैषम्यं विपाकदारुणत्वं मुहुर्मुहुश्चिन्तयति। तथाहि - सल्लंकामा विसं कामा, कामा आसिविसोवमा / कामे पत्थमाणा अकामा जंति दुग्गई / / 1 / / खिणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसुक्खा। संसारमुक्खस्स विपक्खभूया, खाणीअणत्थाण य कामभोगा / / 2 / / तथा जहा कुकुडपोयस्स, निच्चं कुललओ भयं, एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं / / 54 / / महामहोपाध्याय श्री यशोविजयविरचितं 45 मार्गपरिशुद्धिप्रकरणंसटीकम्