________________ सह कलेवरदुःखमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा। बहुतरं च सहिष्यति जीव! रे, परवशो न च तत्र गुणोऽस्ति / / 1 / / अपि च - सर्वोऽपि कर्मविपाको न मोक्षकारणमिति न, यत: शुभानुबन्धिकर्मविपाक इष्यत एव, तीर्थकरादयो हि कुशलानुबन्धिनिरनुबन्धिकर्मोदयात् चारित्रधर्माराधनसमर्था आगमे निर्दिष्टाः / पापकर्मोदयोत्पन्नाश्च द्रमकप्राया न कदाचिदपि चारित्रधर्मे दृढं प्रवर्तन्ते। अतो व्रतरक्षां गुणवृद्धि कर्मक्षयं चेच्छताऽनशनादितप: कर्तव्यमिति / / 120 / / साम्प्रतं विचारद्वारमाह भाव्यं पुनरर्थपदं यथाऽतिचारे तु हन्त! सूक्ष्मेऽपि / स्त्रीत्वादिगुरुफलं चेत्, कथमधुना बकुशचारित्रम् / / 121 / / टीका - भाव्यं विचारणीयं सम्यग्भावनाप्रधानेन तस्या एवेह प्रधानत्वात्, किम्? अर्थपदं अर्थ: प्रकरणप्रतिपाद्यो ज्ञानविषयो वा तत्प्रधानं पदं शाब्दप्रतीतिजनकम्। कथम्? यथा निदर्शने, अतिचारे चारित्रापराधे हन्तशब्द आमन्त्रणे तुशब्दो विशेषद्योतने सूक्ष्मेऽपि स्वल्पेऽपि गुरावीषदप्रीत्यादिलक्षणे ब्राह्मीसुन्दरीपूर्वभवजीवपीठमहापीठतपनादीनां. स्त्रीत्वादिगुरुफलं स्त्रीत्वकिल्बिषिकत्वादिदारुणविपाकं चेद् यदि, तर्हि कथं केन प्रकारेण अधुना साम्प्रतं बकुशचारित्रम् अतिचारबहुलं मोक्षस्य हेतुः स्याद्? नैव स्यादित्यर्थः। आगमे च श्रूयते यथाऽद्यतनानां यतीनां बकुशचारित्रमेव मोक्षहेतुः स्यात् / / 121 / / एवं चित्तविप्लवे सति मार्गानुसारिणं विकल्पमाह - इत्थं च युज्यतेऽदो रोगचिकित्साऽतिचारवदिहापि / रौद्रविपाकेऽपि गतिः प्रतिस्वविपरीतभावततिः / / 122 / / टीका - इत्थम् एवं च युज्यते घटते अदः एतदनन्तरोदितं रोगचिकित्सातिचारवत् कुष्ठादिव्याधिचिकित्सा प्रपद्य तस्य सूक्ष्ममपि अतिचारमपथ्यसेवनलक्षणं यो करोति तस्य सोऽतिचारो विपाकेऽतिरौद्रो भवति तद्वदिहापि भवरोगचिकित्सालक्षणे चारित्रेऽपि रौद्रविपाकेऽपि परिणामदारुणेऽपि अतिचारे तत्क्षपणहेतुत्वेन गतिः शरणं प्रतिस्वविपरीतभावतति: प्रतिस्वं स्वं स्वमतिचारं प्रति प्रत्यतिचारमित्यर्थः, विपरीतभावततिः विपरीत: प्रतिपक्षो भाव: अध्यवसाय: तस्य तति: परम्परा। इदमुक्तं भवति - प्रपद्यापि चारित्रं जीवोऽनादिभववासनात: सेवेत यद्यतिचारं तर्हि तत्क्षपणहेतुः प्रतिपक्षभावना, किन्तु नालोचनादिमात्रम् / / 122 / / एतदेवाह - नालोचनादिमात्रं ब्राह्मयादेरपि हि येन तद्भावः / सप्रतिकारविषोपममसुखाय न सातिचारमदः / / 123 / / टीका - न नैव प्रतिपक्षभावनाशून्यम्आलोचनादिमात्रं सामान्यत आलोचनाप्रायश्चित्तादिमात्रमतिचारक्षपणहेतुः, हिशब्दः पूरणे, येन कारणेन ब्राह्मयादेरपि ब्राह्मीसुन्दरीतपनादीनामपि तद्भावः सामान्यत आलोचनादिमात्रसद्भाव आसीदेव। निष्कर्षमाह - सप्रतिकारविषोपमं यथा कृतप्रतिकारं विषं बह्वपि भक्षितं सन्न मारयति, अकृतप्रतिकारं तु स्तोकमपि मारयति तद्वत् सातिचारमदः सातिचारमप्येतद्वकुशचारित्रं कृतप्रतिपक्षभावनालक्षणप्रतिकारं न नैव असुखाय दुःखाय भवति, अपितु मोक्षहेतुरेव भवति। एतद्विपरीस्तु स्तोकोऽपि अतिचार आलोचनादिनाऽकृतप्रतिकारो महामहोपाध्याय श्री यशोविजय विरचितं 44 मार्गपरिशुद्धिप्रकरणंसंटीकम्