SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ यथोक्तप्रमाणभोगयतनयाऽऽत्मसंयमरक्षाहेतुत्वात् चारित्रस्य साधकानि भवन्ति, इतरथाऽऽज्ञादयो दोषा ज्ञातव्या इति / / 118 / / अथ तपोविधानद्वारमाह - सद्योगवृद्धिजनकं सद्ध्यानसमन्वितं त्वनशनादि / कुर्यात्तपोऽपि यस्मादपैति चितमांसशोणिता / / 119 / / टीका - सद्योगवृद्धिजनकं शुभानुबन्धित्वात्, सद्ध्यानसमन्वितम् आशंसारहितत्वात् तुशब्दोऽवधारणे कुर्याद् विदधीतैव यथाशक्ति आस्तां संयम: तपोऽपि अनशनादिकमपि यस्मात् कारणात् अपैति दूरीभवति देहात् चितमांसंशोणिता धातूद्रेक: / चितमांसशोणिता हि जनयति मोहोन्मादं तस्मात् संयमरक्षार्थमनशनादि कर्तव्यमिति / / 119 / / उपचयार्थमाह - तीर्थकरज्ञातेन क्षायोपशमिकमिदं च परिभाव्य / ध्यानोज्ज्वलं विदधतां न मनाक् पीडाऽपि विघ्नाय / / 120 / / - टीका - तीर्थकरज्ञातेन तीर्थकरो भुवनगुरुः चतुर्ज्ञानी तेनैव भवेन सिद्धव्ये ध्रुवे तथापि अनिगूहितबलवीर्यः सन् तपउपधाने उद्यच्छते तस्य ज्ञातेन दृष्टान्तेनाऽस्मादृशैरपि निर्जरार्थं तपोविधाने उद्यन्तव्यमेव सप्रत्यपाये मानुष्ये। तदुक्तं पञ्चवस्तुग्रन्थे तित्थयरो चउनाणी, सुरमहिओ सिज्झिअव्व यधुवम्मि। अणिगूहिअबलविरिओ, तवोवहाणम्मि उज्जमइ / / 841 / / किं पुण अवसेसेहिं, दुक्खक्खयकारणा सुविहिएहिं / / होइ न उज्जमिअव्वं, सपच्चवायम्मि माणुस्से? / / 842 / / नन्वनशनादि दु:खमितिकृत्वा न मोक्षकारणं कर्मविपाकत्वात् कर्मवदिति चेत्, नैवं, क्षायोपशमिकमिदंच अनशनादिक्षायोपशमिकभावे जीवस्वरूपे जिनागमणितत्वेन शुभभावहेतुत्वाद् यतिधर्मान्तर्गतत्वाच्च मोक्षकारणमेवेति परिभाव्य विचिन्त्य ध्यानोज्ज्वलं यथा धर्मध्यानमुज्ज्वलं वर्धमानं स्यात्तथा स्वास्थ्येनाऽनशनादि विदधतां कुर्वतां महानुभावानां मनाग ईषत् पीडाऽपि शारीरिकदुःखमपि न नैव विघ्नाय अवरोधाय मोक्षाऽवाप्तेर्भवति। तदुक्तं - क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा। महतिफलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयति / / 1 / / तथाऽऽगमेऽपि - इह आणाकंखी पंडिए अणिहे, एगमप्पाणं संपेहाए धुणे सरीरं, कसेहि अप्पाणं, जरेहि अप्पाणं, - जहा जुनाई कट्ठाई हव्ववाहो पमत्थइ। एवं अत्तसमाहिए अणिहे, विगिंच कोहं अविकंपमाणे (आचाराङ्ग १-४-३-सू.१३५) योगबिन्दुवृत्तावपि - कषायनिरोधब्रह्मचर्यदेवपूजादिरूपाद्विधानात् तप: कार्यम्। (श्लो. 134) अन्यत्राप्युक्तं महामहोपाध्याय श्री यशोविजय विरचितं 43 . मार्गपरिशुद्धिप्रकरणंसटीकम् |
SR No.004398
Book TitleMargparishuddhi Prakaranam
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherBhidbhanjan Parshwanath Jain Sangh
Publication Year2002
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy