SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ एतट्टीवा - मुक्त्वा मिथ उपकारं, परस्परोपकारमित्यर्थः, अन्योऽन्यगुणादिभावसंबद्धं' प्रधानोपसर्जनभावसंयुक्तं, छत्रमठच्छत्रतुल्यो वास:, अछत्रतुल्यस्तु स्वातन्त्र्यप्रधानो न गच्छवास तत्फलाभावादिति गाथार्थः / / 104 / / / / 115 / / किमित्याह शिष्य: प्रतीच्छको वाऽप्येकगणो वा न सद्गतिं दत्ते / / ये तत्र बोधदर्शनचरणगुणास्ते तु सुगतिफलाः / / 116 / / टीका - शिष्यो विनेयः, प्रतीच्छको ज्ञानाद्यर्थमुपसम्पन्नो वा शब्दौ विकल्पे एकगणोपि गणस्थोऽपि न नैव सद्गतिं स्वर्गापवर्गलक्षणां दत्ते यच्छति, किन्तु ये तत्र गच्छे बोधदर्शनचरणगुणा: ज्ञानादिगुणास्ते एव तुशब्दोऽवधारणे सुगतिफला: स्वर्गापवर्गप्रदायका इति / / 116 / / पर आह - ननु गुरुकुलवासवतां गणवासध्रौव्यमस्ति चेत् सत्यम् / नीत्या तदेकलब्ध्या तदुचितया वसति तद्धेतुः / / 117 / / टीका - ननु प्रश्ने गुरुकुलवासवतां गुरोः अन्तेवासिनां गणवासध्रौव्यं गच्छवासनैयत्यम् अस्ति वर्तते, यस्माद् गुरुपरिवारो गच्छ इत्येतन्निदर्शितं पूर्वं भवतेति चेत्, सत्यमिदं यदभ्यधायि भवता, किन्तु गच्छमध्ये तदेकलब्या गच्छैकलब्ध्या हेतुभूतया तदुचितया गच्छोचितक्रमेण नीत्या सूत्रनीत्या वसति यावज्जीवं निवसति तद्धेतु : तस्य गच्छवासस्य हेतुः प्रयोजनं सारणावारणादिना ज्ञानादिगुणवृद्धिलक्षणं तद्वान् सन् वसति गच्छमध्ये, नान्यथेति ख्यापनार्थमिदं गच्छग्रहणम्।अन्यथा सारणवारणनोदनविनयकरणकारणादिविरहेऽयमगच्छवास एवेति / गच्छाचारप्रकीर्णकादौ प्रसिद्धम् / / 117 / / अथ वसतिद्वारमाह - . सेवेत शुद्धवसतिं सङ्गमविज्ञैः समं कुशीलैश्च / . . परिवर्जयेद्विशुद्धं गृह्णात्याहारमुपकरणम् / / 118 / / टीका - सेवेत आश्रयेत् शुद्धवसतिं मूलगुणोत्तरगुणपरिशुद्धां तथा ब्रह्मचर्यरक्षार्थं स्त्रीपशुपण्डकवर्जिताम्। एवमोघशुद्धत्वेऽपि सदा स्थविरदत्तसंस्तारकादिभोगेन साफल्यं ज्ञेयम्, न तु यथाकथञ्चिदिति। अथ सङ्गद्वारमाह - सङ्गमविज्ञैः सङ्गम: संसर्ग: कल्याणमित्रसत्क: पापमित्रसत्कश्च तं विशेषेणाऽऽसेवनपरिहारद्वारेण जानन्तीति सङ्गमविज्ञा: संविग्नगीतार्थास्तै: समं सार्धं शुद्धवसति सेवेत पातकघातकत्वेन दोषहानेर्गुणप्रतिपत्तेश्च / एतदेव प्रतिषेधमुखेनाह - कुशीलै : पार्श्वस्थादिभिः परिगृहीतां शुद्धवसतिमपि परिवर्जयेत् परित्यजेत् तैः सह संवासपरिहारेण, जीवद्रव्यस्य भावुकत्वात् संसर्गजा गुणदोषा इति दोषप्रतिपत्तेः तत्संसर्गमात्रनिमित्तत्वात्तत्पापानुमतेः, तथाज्ञादयश्च दोषा इति। तथा चागम: - खुड्डेहिं सह संसग्गिं, हासं कीडं च वज्जए (उत्तराध्ययन अ.१ सू 9) / अथाऽऽहारोपकरणद्वारद्वयं युगपदाह - विशुद्धम् उद्गमोत्पादनादिद्विचत्वारिंशद्दोषपरिशुद्धं गृह्णाति आदत्ते आहारम् अशनादि, तदुक्तं च - गुर्वी पिण्डविशुद्धिः संयमाधार इति। तथा - उपकरणं च वस्त्रपात्रादि, उपलक्षणात् संयोजनादिदोषपरिशुद्धमेतद्वयमपि भुञ्जीत, तथा धारयेद् वस्त्रपात्रादि यथा रागोत्पत्ति: लोके च परिवादो न स्यात्। विशेषार्थिना श्रीमदाचाराङ्गद्वितीयश्रुतस्कन्धगतशय्याऽऽहारवस्त्रपात्राध्ययनतोऽवसेयम्। इदं तुध्येयम् - एतानि शय्याऽऽहारोपकरणानि मूच्छरिंहितानां | महामहोपाध्याय श्री यशोविजय विरचितं 42 गार्गपरिशुद्धिप्रकरणंसटीकम् |
SR No.004398
Book TitleMargparishuddhi Prakaranam
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherBhidbhanjan Parshwanath Jain Sangh
Publication Year2002
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy