________________ गुरुपारतन्त्र्यमेव च तद्बहुमानात्सदाशयानुगतम्। परमगुरुप्राप्तेरिह बीजं तस्माच्च मोक्ष इति / / (2-11 षोडशकप्रकरणम्) तथा गुरुदंसणं पसत्थं, विणओ अतहामहाणुभावस्स / अन्नेसि मग्गदसण, निवेअणा पालणं चेव / / 1 / / वैयावच्चं परमं, बहुमाणो तह य गोअमाईसु / तित्थयराणाकरणं सुद्धो नाणाइलंभो अ / / 2 / / अंगीकयसाफल्लं, तत्तो अपरो परोवगारोऽवि / सुद्धस्स हवइ एवं, पायं सुहसीससंताणो / / 3 / / इअनिक्कलंकमग्गाणुसेवणं होइ सुद्धमग्गस्स / जम्मतरेऽवि कारणमओ अनिअमेण मोक्खोत्ति / / 4 / / एवं गुरुकुलवासो, परमपयनिबंधणं जओ तेणं / * तब्भवसिद्धिएहिवि, गोअमपमुहेहिं आयरिओ / / 5 / / ता एयमयारिज्जा, चइऊण निअंकुलं कुलपसूओ। इहरा उभय ओ, सो उण नियमा अणत्थफलो / / 6 / / (पं.व.गा.६९०-६९५) अथ गच्छद्वारमाह - तत्परिवारो गुरुपरिवारो गच्छ: गुरुदु तं तद्वासे गुरुकुलवासे निर्जरा कर्मक्षयलक्षणा विपुला पुष्कला विनयादिति / / 114 / / तशा - - स्मारणवारणनोदनविनयकरणकारणादिना त्याज्यः / ... विधिना तस्य तु विरहे छात्रमठच्छात्रतुल्यगणः / / 115 / / _टीका - स्मारणेत्यादि नश्यत्कुशलयोगविषयं स्मारणम्, अहितप्रवृत्ते: वारणम्, अधिकतरे कृत्ये गुणस्थानके च नोदनं प्रेरणं, सुचरितानाम् अभ्युत्थानादिलक्षणो विनयस्तस्य करणं स्वतः, शैक्षकाणांचकारणम्आदिपदादुपबृंहणादिग्रहणम्।ऐतै: करणभूतैर्दोषप्रतिपत्तिर्न भवति। एवं विनयादिषु प्रवर्तमानो नियमेन मोक्षपदसाधको भवति। अत्रैवापवादमाह - तस्य तु स्मारणवारणनोदनविनयकरणकारणादेरेव विरहे अभावे परस्परोपकाराभावाद् विधिना सूत्रविधिना त्याज्य उज्झितव्यो गच्छः, यत: छात्रमठच्छात्रतुल्यगण: छात्रादिनां निलयो मठस्तद्वासिन: छात्रा: गुरुपारतन्त्र्येण परस्परोपकारिणस्तत्तुल्यो गण: गच्छ:, अच्छात्रतुल्यस्तुस्वातन्त्र्यप्रधानो न गच्छ:, तत्फलाभावात्। पञ्चवस्तुग्रन्थस्यानुवादकर्तृभिः श्रीमद्विजयराजशेखरसूरिभिस्तु सारणवारणादिविषयिका सटीकगाथा यथा कक्षीकृता तथोपन्यस्यतेऽत्र मोत्तूण मिहुवयारं, अण्णोऽण्णगुणाइभावसंबद्धं / छत्तमढछत्ततुलो, वासो उ ण गच्छवासोत्ति / / 104 / / महामहोपाध्याय श्री यशोविजय विरचितं 41 मार्गपरिशुद्धिप्रकरणंसटीकम्