________________ तत: शैक्षस्य भावंज्ञात्वा प्रवचनविधिना प्रज्ञाप्यते। ततश्च परिणतं ज्ञात्वा मण्डल्याम् उपवेशयेद्, अपरिणतप्रवेशे चाज्ञादयो दोषाः / एतदेवाह- नो चेद् यदि न भवति गुप्तेः प्रवचनमर्यादाया विराधकता यत: अनुपस्थापितेन, उपस्थापितेऽपि अकृताऽऽचाम्लादिविधानेन सह परिभोगे तत्क्षणमेव गुप्तिविराधनाऽहन्द्रिणितेति / / 111 / / साम्प्रतं व्रतपालनोपायानांद्वारगाथामाह गुरुगच्छवसतिसङ्गाहारोपकरणतपोविचारेषु / भावनविहारमुनिवरकथासु यतते च परिणामी / / 112 / / टीका - (1) गुरु: आचार्यादिः, (2) गच्छ: गुरुपरिवार: (3) वसतिः प्रतिश्रयः (4) सङ्गः संसर्गः (5) आहारः अशनादि (6) उपकरणं वस्त्रपात्रादि (7) तपः अनशनादि (8) विचार : अर्थपदचिन्तनम् एतेषां द्वन्द्वः गुरुगच्छवसतिसङ्गाहारोपकरणतपोविचारास्तेषु शोभनेषु तथा (9) भावनं भावना (10) विहारो मासकल्पादिः (11) मुनिवरकथा सुसाधुकथा एतेषामपि द्वन्द्वः भावनविहारमुनिवरकथास्तासु सुन्दरासु यतते यस्यति च पुन: परिणामी परिणत: शैक्ष एषा जिनाज्ञेति / / 112 / / अस्या एव गाथाया ऐदम्पर्यमाह - इभ्यो नृपमिव शिष्यः सेवेत गुरुं ततो विनयवृद्ध्या। सद्दर्शनानुरागादपि शुद्धिौतमस्येव / / 113 / / टीका - इभ्यो धनी प्राप्तैश्वर्यवृद्ध्यर्थं नृपमिव सुस्वामिनं यथा सेवते तथा तत: मण्डलीप्रवेशानन्तरं शिष्यः साधु: उभयलोकसुखावहचारित्रधनवृद्ध्यर्थं सेवेत उपासीत गुरुंगुरुगुणयुक्तं प्रतिदिनं विनयवृद्ध्या वन्दनादिभाववृद्ध्या, आस्तां चारित्रधनवृद्ध्यर्थं सद्दर्शनानुरागादपि गुरुसेवा भगवदाज्ञेति। उक्तं च - गुरुभक्तिप्रभावेन तीर्थकृद्दर्शनं मतम् (यो.दृ.स.श्लो.६४) अत एव शुद्धिः ज्ञानादिशुद्धिः गौतमस्येव भगवज्ज्येष्ठशिष्यस्येवेति / / 113 / / अपि च गुरु सेवाभ्यासवतां शुभानुबन्धो भवे परत्रापि / ___ तत्परिवारो गच्छस्तद्वासे निर्जरा विपुला / / 114 / / टीका - गुरुसेवाभ्यासवतां सुशिष्याणां शुभानुबन्धः अभ्यासादेव भवे इह जन्मनि परत्रापिअन्यस्मिन्नपि। नन्वेतावन्महत्त्वं कुत इति चेद्, उच्यते - गुरुदर्शनं प्रशस्तं, तस्य पुण्यसम्भारभावात्, विनयश्च तथा महानुभावस्य वन्दनादिकरणेन, अन्येषां मार्गदर्शनं, गुरुकुलवासस्य मार्गत्वात्, निवेदनापालनं च, प्रव्रज्याकाले आत्मा तस्मै निवेदित इति, वैयावृत्त्यं परमं तत्सन्निधानात् तद्गामि, बहुमानश्च गौतमादिषु गुरुकुलनिवासिषु, तीर्थकराज्ञाकरणं तेनास्योपदिष्टत्वात्, शुद्धो ज्ञानादिलाभश्च विधिसेवनेन, अङ्गीकृतसाफल्यं दीक्षाया ज्ञानादिसाधनत्वात्, ज्ञानादेश्च पर: परोपकारोऽपि, शुद्धस्य भवत्येवं शुभशिष्यसन्तानः / एवं निष्कलङ्कमार्गानुसेवनं भवति जन्मान्तरेऽपि शुद्धमार्गस्य कारणम् अभ्यासत एव, अतश्च मार्गानियमेन मोक्ष: परम्परयेति। तस्मादेनं गुरुकुलवासं समाचरेत्त्यक्त्वा निजं कुलं दीक्षाङ्गीकरणेन कुलप्रसूतः। अन्यथा गृहिप्रव्रज्याकुलद्वयत्याग: अनर्थफलः / उक्तं च - महामहोपाध्याय श्री यशोविजय विरचितं 40 मार्गपरिशुद्धिप्रकरणंसटीकम्