________________ कायोत्सर्ग योग्योपस्थापनचैत्यवन्दनादिविधौ / कृत्वा गुरवो वामे पार्श्वे संस्थाप्य तं ददते / / 107 / / * टीका - कायोत्सर्ग चेष्टानिरोधलक्षणं कृत्वा व्रतानि ददत इति सम्बन्धः / कुतः? इत्याह योग्योपस्थापनचैत्यवन्दनादिविधौ योग्यस्योपस्थापनायां चैत्यवन्दनादिविधौ कायोत्सर्ग कृत्वा गुरवो निजस्य वामे पार्श्वे तं शैक्षकं संस्थाप्य स्थापयित्वा मुनिव्रतानि ददते प्रयच्छन्ति / / 107 / / यथा ददति तथाह - एकैकं त्रीन वारान् व्रतमत्र स्थानविषयमिममाहुः / पट्टमुखवस्त्रकूर्परवामकरानामिकाग्रहणम् / / 108 / / अपि हस्तिराजदन्तोन्नतहस्ताभ्यां रजोहरणधरणम् प्रादक्षिण्यं चाशिषि गुरोरियं स्यात् परीक्षापि / / 109 / / टीका - एकैकं व्रतं प्रत्येकं मुनिव्रतं परमेष्ठिनमस्कारपूर्वकं त्रीन् वारान् गुरवो ददति। अत्र व्रतदाने स्थानविषयं मुद्रागोचरम् इमं वक्ष्यमाणम् आहुः ब्रुवन्ति, तथाहि - पट्टमुखवस्त्रकूपरवामकरानामिकाग्रहणं पट्ट: चोलपट्टकस्तस्य ग्रहणं कूर्पराभ्यां, मुखवस्त्रस्य ग्रहणं वामकराऽनामिकया / / 108 / / तथा - हस्तिराजदन्तोन्नतहस्ताभ्यां गजस्याग्रदन्ताभ्यामिवोन्नताभ्यां कराभ्यां रजोहरणधरणम्। इत्थम्भूतस्थानस्थितमुपस्थापयेदित्यर्थः / पुनश्च वन्दनपूर्वकं कायोत्सर्गानन्तरं यद्भवेदित्येतद्यथा सामायिके तथा द्रष्टव्यं, किञ्चित्पुनराह-प्रादक्षिण्यं च नमस्कारेण निवेदनं कुर्वन्ति शिष्या यथावसरं ततो 'वर्धस्व गुरुगुणैरिति गुरोश्च आशिषि हिताशंसायाम् इयं वक्ष्यमाणा परीक्षाऽपि निमित्तहेतुका स्याद्भवेदिति / / 109 / / परीक्षामाह - ईषदवनतभ्रमतामभिसरणे वृद्धिरपसृतौ हानिः / साधूनां द्विविधा दिक् साध्वीनां तिस्र एताः स्युः / / 110 / / टीका- ईषदवनतभ्रमताम् ईषदवनता: सन्तो विरतिपरिणामेन भ्रमन्ति तेषां स्वत एव अभिसरणे जिनं प्रति गमने वृद्धिः ज्ञानादिभिस्तस्य गच्छस्य च, अपसरणे पृष्ठत: स वान्यो वा ज्ञानादिभिः क्षीयते। अथ दिग्बन्धनमाह - साधूनां दिग्द्विविधा आचार्या उपाध्यायाश्च, साध्वीनां पुन: एतास्तिस्रः स्युः प्रवर्तनी तृतीया विज्ञेयेति / / 110 / / अथ तप आह - आचाम्लादि तपः शक्त्या तत्सप्तकं तु मण्डल्याः / उपवेशयेत् परिणतं नो चेद् गुप्तेविराधकता / / 111 / / टीका - प्रवेदने आचाम्लादिआचाम्लनिर्विकृतिकादिलक्षणं तपः कार्य शक्त्या यथाशक्ति। तत: तत्सप्तकम् आचाम्लसप्तकं तुशब्दो विशेषद्योतने नियमेनैव मण्डल्या: मण्डलीप्रवेशे कार्यते। मण्डलीसप्तकं त्वेवं - सुत्ते अत्थे भोअण, काले आवस्सए सज्झाय / संधारए वि अतहा, सत्तेसा मंडली हुंति / / 1 / / महामहोपाध्याय श्री यशोविजय विरचितं 39 मार्गपरिशुद्धिप्रकरणंसटीकम् |