________________ अतिचारः पञ्चमके सूक्ष्मः काकादिरक्षणाज्ज्ञेयः / कल्पाष्टके ममत्वे द्रव्यादिग्रहणतश्चान्यः / / 104 / / ज्ञानाद्यनुपकृतिकृतो धरणे वा वस्तुनोऽतिरिक्तस्य / षष्ठे च चतुर्भङ्गी दिवागृहीतादिनिष्पन्ना / / 105 / / टीका- एकेन्द्रियादितापनसङ्खट्टनपीडनादिना एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियजीवानां सङ्घट्टनपरितापनोपद्रापणादिनाऽतिचार: उपद्रापणं महत्पीडाकरणं प्रथमे शेषाधारत्वात्सूत्रक्रमप्रामाण्याच्च प्राणातिपातविरमणमहाव्रते। प्रचलाक्रोधादिभ्यः प्रचलादिभिर्भवति सूक्ष्मः, प्रचलायसे किं दिआ? न पयलामी'त्यादि, क्रोधादिनाऽभिभाषणम् अन्यश्च बादरश्च द्वितीये मृषावादविरमणमहाव्रते स्याद् भवेत् / / 102 / / क्रोधानाभोगादेः क्रोधादिभिः सधर्मकाद्यप्रदत्तग्रहणे सधर्मकाणां साधुसाध्वीनाम्आदिपदाद्अन्यसधर्माणां चरकादीनां गृहिणां चाऽप्रदत्तं सचित्तासचित्तादि तस्य ग्रहणे बादर:, अनाभोगादिनाऽविदत्तं तृणडगलच्छारमल्लकादिग्रहणे च सूक्ष्म: अतिचार: अस्तेये अदत्ता दानविरमणमहाव्रते भवति। ब्रह्मण्यपि मैथुनविरमणमहाव्रतेऽपि परिणामवैचित्र्यात् करकर्मणि हस्तदोषाभिधानकुकर्मणि तथा गुप्त्यरक्षायां नवब्रह्मचर्यगुप्तीनां सम्यगपालने चाऽतिचारो भवति / / 103 / / पञ्चमके परिग्रहविरमणमहाव्रते प्रसारिततिलादेः काकादिरक्षणात् काकादिश्वगोभ्यो रक्षणात् कल्पाष्टके बाले च मनाग् ममत्वे सति सूक्ष्मः अतिचारोज्ञेयः। अथ बादरमाह-लोभा द्रव्यादिग्रहणतश्च / / 104 / / तथाविधपरिणामादेव ज्ञानाद्यनुपकृतिकृतः अतिरिक्तस्य वस्तुन उपध्यादिलक्षणस्य ग्रहणे धरणे वा अन्यो बादर: अतिचारो ज्ञेयः / षष्ठे रात्रिभोजनविरमणव्रते च चतुर्भङ्गी दिवागृहीतादिनिष्पन्ना दिवागृहीतं दिवाभुक्तं सन्निधे: परिभोगेन एवमादिश्चतुर्भङ्गः तथाविधपरिणामयोगादतिचार: प्रज्ञप्त: अनन्तज्ञानिभिरिति / / 105 / / अथ परीक्षाविधिमाह - उदकार्दादिपरीक्षां कुर्यात् कथनोत्तरं च गीतार्थः। . परिहरति नोदके वा योग्यत्वमनीदृशे भजना / / 106 / / . टीका-अनन्तरोक्तक्रमेण कायव्रतानि कथयित्वा, कथनोत्तरंच गीतार्थः साधुः तेषु कायव्रतेषु अभिगतेष्वेव नानभिगतेषु गोचरगते शिष्ये उदकार्दादिपरीक्षां उदकार्दादिदातृहस्तभाजनादिना दीयमानभिक्षाग्रहणविषये परीक्षा कुर्यात्, आदिशब्दात् तत्परीक्षार्थं गीतार्थ उच्चारादि अस्थण्डिले व्युत्सृजति, शुद्धपृथिव्यां कायोत्सर्गादि करोति, नद्यादावुदकसमीपे उच्चाराद्येव व्युत्सृजति, तथा साग्नौ निक्षिप्ततेजसि स्थण्डिलादौ उच्चाराद्येव करोति, व्यजनाभिधारणं वाते करोति, हरिते यथा पृथिव्याम् उच्चारायेव व्युत्सृजति, वसेषु च यथा पृथिव्यामिति, एवमेव गोचर्या कायैः रज:संस्पृष्टग्रहणादिना च परीक्षां कुर्यात्। न चैवं गुरोः षट्कायविराधने स्वसंयमबाधेन ‘गृहं प्रज्वाल्य लोकानां तीर्थयात्रा-कारापणमिति न्यायापात इति शङ्कनीयम्, सूत्रोक्तयतनया गुरोः प्रवर्तनात्, कथञ्चिज्जीवविराधनायां सत्यामपि वर्जनाभिप्रायसद्भावाद्, जिनाज्ञापालनपरिणामसद्भावाच्चेति भावनीयम् / अभिनवप्रव्रजित: परीक्षायां यदि स्वत: परिहरति प्रेरयति वा द्वितीयम् अयुक्तमेतदित्येवं, तदा तस्मिन् परिहरति वर्जके नोदके प्रेरके वा उपस्थापनाया योग्यत्वं क्लृप्तत्वं भवति। अनीदृशे अयोग्ये भजना विकल्पनेति / / 106 ।।अथोपस्थापनाविधिमाह - महामहोपाध्याय श्री यशोविजय विरचितं 38 मार्गपरिशुद्धिप्रकरणंसटीकम्