________________ भूमिखातस्वाभावाविकसम्भवाद् दुर्दुरकवद् वर्षाभूरिव जलम् आप: चः समुच्चये तथा सचित्तम्। वा विकल्पे व्योमोद्भवस्य अन्तरिक्षजातस्य जलस्य सचेतनत्वं स्वभावतः स्वाभाविकात् पातात् पतनामत्स्यवद् मीनवत् / / 98 / / अनलोऽपि अग्निरपि व्यक्तः स्पष्टः सचेतन आहाराद् इन्धनलक्षणाद् वृद्धिविकारोपलम्भतः स्फातिपरिणामदर्शनात् पुरुषवत्। वायुरपि पवनोऽपि सचित्तो जीवमय: अपरप्रेरिततिर्यग्गते: अपरप्रेरिततिर्यगनियमितगतिमत्त्वाद् गवादिवत् / / 99 / / तरवो वनस्पतयः सचेतनाः सचित्ता जन्मजरामृतिजीवनारोहणरुग्दौहदैः हेतुभि: तथा हेत्वन्तरसमुच्चये आहाराद् मृत्तिकाजलादिरूपाद्रोगचिकित्सादिभ्यः आदिशब्दात् छिन्नप्ररोहादिभ्यश्च नार्य इव स्त्रिय इव / / 10 / / नन्वेकेन्द्रियाणां रसनाद्यभावे कथं जीवत्वमिति चेत्, उच्यते - श्रोत्रादीनां विगमेऽपि बधिरादीनामिव तेषां जीवत्वं तथाकर्मविपाकाद्ज्ञेयम्। तथा च - यदि नाम बधिरस्य जन्तोः श्रोत्रमावृतं, श्रोत्राभावात् शेषेन्द्रियभावे सति किमसौ बधिर: अजीव:? जीव एव। तथा - बधिरस्य चान्धस्य चोपहतघ्राणरसस्य च यथा बधिरस्य सत्येकस्मिन्नपि स्पर्शने जीवत्वं किमयुक्तम्? नैवायुक्तमिति। ननु बधिरादीनां निर्वृत्त्युपकरणलक्षणं द्रव्येन्द्रियं दृश्यते, नैवमेतेषां पृथिव्यादीनामिति चेत्, उच्यते- तद्रव्येन्द्रियं न तेषामेकेन्द्रियाणां तथाकर्मपरिणते:, यथा चतुरिन्द्रियाणां श्रोत्रं, तथापि तेषां जीवत्वं सर्वसम्मतम्। स्यादेतत्, वनस्पते: सचेतनत्वसाधने प्रत्येकमेते जन्ममत्त्वादयो हेतव उपात्तास्तेऽनैकान्तिकाः, तद्यथा - जन्मवत्त्वादिति केवलोऽनैकान्तिक: पक्षधर्मः, अचेतनेष्वपि दृष्टत्वात्, जातं दधीतिव्यवहारवत्, तथा जरावत्त्वमपि जीर्णं वास:, जीर्णा सुरेतिव्यवहारवत्, तथा जीवनहेतुरप्यनैकान्तिकः, सञ्जीवितं विषम्, तथा मृतं हेमेतिव्यवहारात्, तथा सीधोर्गुडाहारवारभ्यवहरणम् विनष्टानां च मद्यानामुपक्रमैः प्रकृत्यापादनं चिकित्सेत्युच्यते, सत्यम्, प्रत्येकमेतेऽनैकान्तिका: सर्वे तु समुदितान क्वचिदप्यचेतने दृष्टाः, चेतनेष्वेव वनिताप्रभृतिषु दाडिमबीजपूरिकाकुष्पाण्डिवल्ल्यादिषु च दृष्टा इत्यनैकान्तिकव्यावृत्तिरिति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः। .. त्रसजीवत्वं त्रस्यन्तीति त्रसा द्वीन्द्रियादयस्तेषां जीवत्वं सचेतनत्वं व्यक्तं स्पष्टं विप्रतिपत्त्यभावात्। तत्पालनतो तेषां पृथिव्यादिपञ्चेन्द्रियपर्यन्तानां सङ्घट्टनपरितापादितो रक्षणतो व्रतानि मुनिव्रतानि प्राणातिपातविरमणमुख्या: प्राणव्यपरोपणविरमणादीनि निशिभोजनविरमणाऽवसानानि मूलगुणा: यतिधर्मकल्पवृक्षस्य मूलस्थानीया: षट्सङ्ख्यया, यदिवा षट्चरणतरुभूमौ षट् चरणा: पादा आधारत्वेन मूलानीत्यर्थः यस्य स षट्चरणस्तरु: अथवा चरणं चारित्रमेव तरु: मोक्षफलत्वात् चरणतरुस्तस्य भूमौ भुवि विस्तारायेत्यर्थः / / 101 / / अथ महाव्रतानां सूक्ष्मबादरभेदतः अतिचारानाह एकेन्द्रियादितापनसङ्कट्टनपीडनादिना प्रथमे / प्रचलाक्रोधादिभ्यः सूक्ष्मोऽन्यश्च द्वितीये स्यात् / / 102 / / क्रोधानाभोगादे: सधर्मकाद्यप्रदत्तग्रहणे च / अस्तेये ब्रह्मण्यपि करकर्मणि गुप्त्यरक्षायाम् / / 103 / / | महामहोपाध्याय श्री यशोविजय विरचितं 37 मार्गपरिशुद्धिप्रकरणंसटीकम् |