________________ तथा- . नाणं चरित्तहीणं, लिंगग्गहणं च दंसणविहूणं / संजमहीणं च तवं, जो चरइ णिरत्थयं तस्स / / 1 / / / / 85 / / तथा च - परेण यदुक्तं गृहवासत्याग: पापात् तदनन्तरोक्तचारित्रविहीनानामज्ञानवतामभिष्वङ्गैकपराणां पक्षे न्याय्यमिति दर्शयन्नाह - ___अविधिपरिपालनादेर्यैर्मुषितं प्राणिनां तु धर्मधनम् / पापानुबन्धिपापाद्भाले तेषामसद्भिक्षा / / 86 / / टीका - यत: अविधिपरिपालनादे:अज्ञानादिपरिभूतत्वेन स्वकीयोपभोगतया हिंसादिभिः सुखप्रसाधनाय स्वच्छन्दपरिपालनोत्सूत्रप्ररूपणादितो यै: मोहमूढैः मुषितं लुण्टितं प्राणिनां ऋजूनां तुशब्दो विशेषद्योतने धर्मधनं पुण्याऽवाप्तत्वाद् यदि वा सम्यग्दर्शनादिलक्षणधर्म एव धनं स्वर्गाऽपवर्गदायकत्वात्, तत: तेषां गृहवासत्याग: पापनुबन्धिपापाद् विपाकदारुणत्वेन भाविदुर्गतिहेतुत्वात्।अपि च - भाले ललाटे तेषां यतिवेषविडम्बकानाम् उदरभरणार्थं भिक्षाऽपि असद्भिक्षा आरम्भसङ्गतत्वेनाऽशुद्धपरिणामात्। न तु सुयतीनां भिक्षा तथा, तस्या दातृग्रहीत्रोरपवर्गफलत्वादिति। तथा च गृहवासं त्यक्त्वा तस्य फलभूतां प्रव्रज्यामपि विरुद्धाऽऽसेवनात् त्यक्त्वा, मोहपरतन्त्रास्ते न गृहिणो न च प्रव्रजिता विहितानुष्ठानाऽकरणात्, किन्तु संसारवर्धका एवेति / / 86 / / उपसंहरन्नाह सध्यानादेविरहें गृहवासस्तत्त्वतोऽन्यथा दीक्षा / . . प्रव्राजकस्य न तत: सद्वैद्यस्येव दोषोऽपि / / 87 / / टीका - अनन्तरोक्तेन गृहवासत्याग: पापादिति यत्परेणोक्तं तदाक्षिप्तं विज्ञेयं यत: सद्ध्यानादेः धर्मध्यानादे: विरहे अभावे सति गृहवास: अगारवास इति, न हि गृहवासे 'कदा सिध्यति दुर्गमि'त्यादिना सद्ध्यानसम्भवः / न च गृहवास आरम्भमृत इति स पापानुबन्धिपुण्यात् तत्त्वत: परमार्थतः / अन्यथा उक्तविपर्ययादीक्षा प्रव्रज्या आरम्भनिवृत्ते: सद्ध्यानादिसद्भावात् प्रशमसुखानुभूतेश्च भवपाशविनाशिनी सिद्धिदात्री च। ततः तस्मात् प्रव्राजकस्य दीक्षादातुः न नैव आस्तां गुणाभावो दोषोऽपि प्रव्रज्याप्रदानतप:कारणप्रभृतिकोऽपि स्वकीयभावशुद्धः परभावाऽज्ञानाच्च, किन्तु गुण एव जिनाज्ञापालनात् परहितप्रवृत्तत्वात् तीर्थाऽव्युच्छित्तिकारित्वाच्च कस्येव? सद्वैद्यस्येव आयुर्वेदनिष्णातस्येव शल्योद्धरणादौ दुःखदाऽपि वेदना सुखहेतुत्वाद् यदि वा चिकित्साकाले व्याधितस्याऽपथ्यसेवनाव्याधिप्रकोपेऽपिन दोषः, अपितु गुण एवाऽऽयुर्वेदोपदेशेन आरोग्यकरणे प्रवृत्तत्वादिति / / 87 ।।अथोपस्थापनाविधिमाह - इत्थं प्रव्रजित: सन् सूत्रोक्तां प्रतिदिनं क्रियां कुर्वन् / चारित्रभरसमर्थो मुनिव्रतस्थापनार्ह : स्यात् / / 88 / / - टीका - इत्थं जिनोक्तविधिना प्रव्रजित: दीक्षित: सन् प्रतिदिनम् अहरह: सूत्रोक्तां भगवदुपदिष्टां क्रियां प्रत्युपेक्षणप्रमार्जनप्रतिक्रमणादिचक्रवालसामाचारीलक्षणां कुर्वन् अप्रमादेन विदधत् चारित्रभरसमर्थ : अष्टादश | महामहोपाध्याय श्री यशोविजय विरचितं 31 मार्गपरिशुद्धिप्रकरणंसटीकम् |