________________ अवश्यंकर्तव्यतया अत्र प्रव्रज्यायाम, कस्य? तपोनियमविधे: उपवासस्वाध्यायजपादिविधानस्य, अपिशब्द: संभावनायां द्रव्याद्यापत्सु द्वितीयपदस्य विधानात्। यदुक्तं - सो हु तवो कायव्वो, जेण मणो मंगुलं न चिंतेइ / जेण न इंदिअहाणी, जेण य जोगा ण हायति / / 1 / / (पं.व.२१४) किञ्च - परमार्थतस्तपो न दुःखं यतो दुःखभावेऽपि तद् निर्वृतिसाधकत्वात् सुखहेतुरेव। तथा - वसति: या वा सा देवकुलादिवासलक्षणा अपिशब्द: समुच्चयेशान्तानां प्रशमितकषायकलुषाणां परमार्थत आत्मैव आत्मारामत्वात्, देवकुलादिः स्वकारितस्तु ममायमिति जीवस्वाभाव्याद् दुःखोपादानम्। अन्नादिविधौ अज्ञातोञ्छलक्षणभिक्षाविधौ न नैवलोभो देहेऽपि तस्य रागादिरहितत्वाद् इति हेतो: को दोषः पापविषय:? नैव कश्चिद् दोषो भगवद्भिर्निर्दिष्टत्वादिति / / 83 / / साम्प्रतं परेण योऽपि पूर्वजन्मनि अदत्तदानाच्च शीतोदकाद्यपरिभोग उक्तस्तत्प्रतिविधानमाह - शीतोदकाद्यभोगोऽप्यत्र न दानान्तरायकारणकः। किन्तु विपाककटुकतां मत्त्वा तद्वर्जनं युक्तम् / / 84 / / टीका-शीतोदकाद्यभोगोऽपि शीतोदकविकृत्याद्यपरिभोगोऽपि न नैव दानान्तरायकारणक: दानं भोगफलमिति तस्यान्तरायो विघ्नः पूर्वजन्मनि कृतो भवति तन्निबन्धनम्, किन्तु परं शीतोदकादिपरिभोगस्याऽनेकसत्त्वोपघातकत्वात् परभवे विपाककटुतां फलविरसतां मत्वा ज्ञात्वा तद्वर्जनं शीतोदकादिपरिहरणं युक्तं युक्त्युपपन्नं पुण्यानुबन्धिपुण्याद् विषान्नस्येव। तथा चागम: सल्लंकामा विसं कामा कामा आसिविसोवमा . कामे पत्थमाणा अकामा जंति दुग्गई / / 1 / / खिणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अणिकामसुक्खा / ' संसारमुक्खस्स विपक्खभूया; खाणी अणत्थाण य कामभोगा / / 2 / / / / 84 / / एवं भावयते: सूत्रोक्ता चेष्टा सुखदैव, तदन्यस्य तु दु:खदेति सिद्धसाध्यता, तथा चाह - चारित्रविहीनानानामज्ञानवतां तु येदृशी चेष्टा / अभिषङ्कपराणां सा प्रतिषिद्धा जिनवरेन्द्रैः / / 85 / / टीका - चारित्रविहीनानां चारित्रं व्यवहारतो निरवद्येतरप्रवृत्तिनिवृत्तिरूपं निश्चयतो निजगुणस्थिरतालक्षणं तद्विहीनानां तच्छून्यानां द्रव्यप्रव्रजितानाम् अज्ञानवतां हेयोपादेयविवेकविरहितानां मूर्खाणाम्, अभिषङ्कपराणाम् ऐहिकादिप्रयोजनैकप्रतिबद्धचित्तानां तुशब्दो विशेषद्योतने येदृशी भोगोपभोगपरिहारलक्षणा भिक्षाटनादिका चचेष्टा बाह्यक्रिया सा पापाद् दुःखरूपेति प्रतिषिद्धा निवारिता जिनवरेन्द्रैः जगज्जीवहितैस्तीर्थकृद्धिः / उक्तं च - वत्थगंधमलंकारं इत्थीओ सयणाणि य। अच्छंदा जे न भुंजंति न से चाइत्ति वुच्चइ / / 1 / / (द.वै.अ.२ गा.२) महामहोपाध्याय श्री यशोविजय विरचितं __30 मार्गपरिशुद्धिप्रकरणंसटीकम्