________________ कइया सिज्झइ दुग्गं, को वामो मज्झ वट्टए कह वा / जायं इमंति चिंता, पावा पावस्स य निदाणं / / 1 / / इअ चिंताविसधारीअदेहो विसए वि सेवइ न जीवो / चिट्ठउ अताव धम्मोऽसंतेसु वि भावणा एवं / / 2 / / दीणोजणपरिभूओ, असमत्थो उअरभरणमित्तेऽवि। चित्तेण पावकारी, तहवि हु पावप्फलं एअं / / 3 / / (प.व.गा.१९०-१९१-१९२) __ चित्तेन पापकारी असदभिष्वङ्गात् राजगृहद्रमकवत्। पापफलमेत भाविनश्च कारणमिति। पुण्यानुबन्धि च तत् परोक्तं क्षुत्पिपासादिपरिभवलक्षणं पुण्यमेव त्यागिनां प्रव्रजितानां योगे तपस्त्यागज्ञानध्यानादिलक्षणे यतिभावे सत्स्वपि भोगेषु निरभिष्वङ्गस्य सङ्क्लेशाभावाद् जन्मान्तरेऽपि दानध्यानादिना कुशलकारणत्वाच्चेति / / 80 / / कथं कुशलकारणत्वमित्याह - धर्मध्याननिमित्तं परिशुद्धं तत् विरक्तसुखहेतुः / पुण्या शुभपरिणामाऽनपायिनी वेदनाऽप्यत्र / / 81 / / टीका - धर्मध्याननिमित्तं शुभध्यानहेतुः परिशुद्धं सर्वोपाधिशून्यं तत् पुण्यानुबन्धिपुण्यं विरक्तसुखहेतुः भवविटपिनिबन्धनविषयेभ्यो विरक्तस्योद्विग्नस्य यत्प्रशमसुखं तन्निबन्धनमिति।आस्तां प्रशमसुखं वेदनाऽपि तपोजन्या क्षुत्पिपासादिलक्षणाऽपि पुण्या जन्मान्तरोपचिताऽशुभकर्मक्षयकारित्वात् तथा चागमः - देहदुक्खं महाफलं, तथाशुभपरिणामाऽनपायिनी निर्जरार्थमभ्युपगतत्वात् सिद्धिसाधकत्वाच्च कुशलाशयाऽविघातकारिणी अत्र प्रव्रज्यायामिति / / 81 / / एतदेव स्पष्टयति - येन क्षुदादयः खलु कर्मक्षयकारणानि भावयतेः / ज्वरिणामिह बाधन्ते कटुकौषधपानमिव न मनः / / 82 / / टीका - येन हेतुना क्षुदादयः क्षुत्पिपासादयः खलुशब्दोऽवधारणे कर्मक्षयकारणानि क्लिष्टकर्मव्याधिक्षयनिबन्धनान्येव तेन भावयते: सज्ज्ञानध्यानयुक्तस्य साधो: मन: अन्त:करणं न नैव बाधन्ते पीडयन्ति परं गुर्वाज्ञासम्पादनात् चरणातिशयं दर्शयन्तो धृतिं कुर्वन्ति। अत्रार्थे दृष्टान्तमाह - इह संसारे कटुकौषधपानं क्वथितकटुकादि पानम् इव यथा ज्वरिणां ज्वरग्रस्तानाम् उपलक्षणात्कुष्ठादिव्याधितानामीषदारोग्यं दर्शयन्मनो न बाधते परं धृति करोति निरामयकारित्वादिति / / 82 / / अथ परेण यदुक्तम् असङ्गस्याप्याश्रयानाद्यभावेन क्षुत्पिपासादिपरिभवनात् सङ्क्लेशोऽस्त्येवेति तन्निराकरणायाह - नैकान्तोऽप्यत्र तपोनियमविधेर्वसतिरपि च शान्तानाम् / आत्मैवान्नादिविधौ न च लोभ इतीह को दोषः / / 83 / / टीका - यद्यपि धर्मप्रभावादेव प्राय: क्षुदादयोऽपि न भवन्ति तथापि मोहोपशमादिव्यतिरेकेण न नैव एकान्तोऽपि महामहोपाध्याय श्री यशोविजय विरचितं 29 मार्गपरिशुद्धिप्रकरणंसटीकम्