________________ विरते: सत्त्वेऽप्येतन वृथाऽऽज्ञासङ्गतक्रियान्तरवत्। विधिकारयितुः शुद्धाभावादगुणो न तदभावे / / 77 / / टीका - विरते: विरतिपरिणामस्य सत्त्वेऽपि भावेऽपि एतत् चैत्यवन्दनादि न नैव वृथा विफलं, किन्तु सफलमेवाऽऽज्ञाराधनाद् आज्ञासङ्गतक्रियान्तरवत् जिनोक्तान्योपधिप्रत्युपेक्षणादिक्रियावत्। यच्चोक्तं तदसत्त्वेऽयं मृषा भूमि: तन्निराकरणार्थमाह - तदभावे विरतिपरिणामाऽभावेऽपि विधिकारयितु :आशंसादिविप्रमुक्तस्याऽऽचार्यादेः शुद्धात् सूत्राज्ञासम्पादनलक्षणा द्भावात् परिणामाद्न नैव अगुण : निर्जरालक्षणगुणाऽभाव:, अपि तु सूत्राज्ञासम्पादनाद् निर्जरालक्षणो गुण एव / / 77 / / एतदेवाह - विषयेऽयुक्तेऽपि गुरोविधिना प्रवाजने गुणो भावात् / तदभावे परभावाज्ञानादिह तीर्थविच्छित्तिः / / 78 / / टीका-विषये शिष्यलक्षणे आस्तां युक्ते, परभावाऽज्ञानात् परस्य विनयरत्नस्थानीयस्य गूढाभिसन्धे: कस्यचिद् भावाज्ञानात् अयुक्तेऽपि अयोग्येऽपि गुरो: आचार्यादेः विधिना जिनोक्तेन प्रवाजने दीक्षादाने गुण: निर्जरालक्षणो भावात् सांसारिकदुःखेभ्यो दोषेभ्यश्च मुच्यतामयमित्यध्यवसायात्। अथ छद्मस्थसत्त्व: परिणामं न जानाति तर्हि न दद्यादसौ दीक्षां, दास्यति चातिशयीति चेत्। अत्राह - इह भरतादिषु साम्प्रतमतिशयज्ञानाभावेन परभावाज्ञानात् तदभावे दीक्षादानाभावे तीर्थविच्छित्ति: तीर्थोच्छेदः सत्त्वेषु न चानुकम्पेति न्याय्य एषोऽनन्तरोक्तः प्रव्रज्याविधिरिति / / 78 / / अत्राऽन्यवादिमतनिरासायाह - न च गृहवासत्यागः पापात् सङ्क्लेशलिङ्गकं यत्तत् / स च तत्र हन्त विपुलस्तदभावेनाऽप्यसङ्गस्य / / 79 / / टीका - न च नैव गृहवासत्याग: पुण्योपात्तस्य गृहवासस्य गृहस्थभावस्य त्यागो हानं प्रव्रज्येत्यर्थ: पापात् शीतोदकविकृत्यादिपरिभोगान्तरायलक्षणाद् पूर्वजन्मनि अदत्तदानाच्चैतदुपलक्षणमिति वाच्यं यद् यस्मात् तत् पापं सङ्क्लेशलिङ्गकं सङ्क्लेश: अर्थोपार्जनरक्षणनाशादिषुआर्तध्यानलक्षणो लिङ्गं चिह्नं यस्य तत्तथा, सच सङ्क्लेश: तत्र गृहवासे हन्तशब्द: खेदे विपुल: पुष्कल: / स च सङ्क्लेश: तदभावेऽपि गृहवासाऽभावेऽपि न नैव अपिशब्दो भिन्नक्रम: असङ्गस्य प्रव्रजितस्य। यदि वा पर आह - तदभावेन गृहवासाऽभावेन अपिशब्दोऽत्रापि भिन्नक्रमः असङ्गस्य त्यक्तगृहवासस्यापि आश्रयाऽन्नाद्यभावेन क्षुत्पिपासादिपरिभवात् सङ्क्लेशोऽस्त्येवेत्यर्थः / / 79 / / अत्राऽऽचार्य आह गेहादौ सत्येष प्रसरति पापानुबन्धिनः पुण्यात् / तत् पापमेव पुण्यानुबन्धि तत्त्यागिनां योगे / / 8 / / टीका - गेहादौ गृहधनधान्यस्वजनपरिजनादौ सति एष सङ्क्लेश: प्रसरति विसर्पति पापनुबन्धिनः पुण्यात्, तस्मात् तत् पापनुबन्धिपुण्यं पापमेव सङ्क्लेशकारित्वात्। तथाहि - महामहोपाध्याय श्री यशोविजय विरचितं 28 मार्गपरिशुद्धिप्रकरणंसटीकम्