________________ अन्यत्राऽप्युक्तम्- धन्यस्त्वं येन सकलकल्याणवल्लरीकन्दकल्पा भागवती दीक्षाऽवाप्ता, तदवाप्तौ चाऽवाप्तानि सकलकल्याणानि ।।१।।अपि च धण्णाण निवेसिज्जतिधण्णा गच्छंति पारमेयस्स। गंतुं इमस्स पारं, पारं दुक्खस्स वच्चंति / / 2 / / / / 74 / / अत्र चैत्यवन्दनादिक्रियाकलापलक्षणे प्रव्रज्याविधौ पर आह - व्यभिचारात् किमनेन क्रियाकलापेन परमपदसिद्धौ / विरतौ सत्यां विफलस्तदसत्त्वेऽयं मृषा भूमिः / / 75 / / टीका - प्रव्रज्याविधिविरहेणाऽपि विरतिपरिणामो भरतादीनां श्रूयते। सम्पादितेऽपि क्रियाकलापलक्षणे विधौ विरतिपरिणामो न जायते अङ्गारमर्दकादीनामिति क्रियाकलापलक्षणहेतो: व्यभिचारात् साध्याभाववद्वृत्तित्वात् किमनेन विचार्यमाणेन क्रियाकलापेन विधिलक्षणेन परमपदसिद्धौ मोक्षप्राप्ती, न किञ्चिदिति भावः, परिणामशून्याया: क्रियाया अकिञ्चित्करत्वात्। अथ विरतौ विरतिपरिणामे सत्यां सत्त्वे क्रियाकलापो विफल: निष्प्रयोजन:, तत्परिणामस्यैव परमपदप्राप्तिप्रति अवन्ध्यकारणत्वात्। तदसत्त्वे विरतिपरिणामाऽभावे अयं क्रियाकलापो पृषा मिथ्या भूमि: प्रपञ्चलक्षणेति ।।७५।।अत्राचार्य: प्रतिविधत्ते - नैवं विरत्युपाय: प्रायो यदयं जिनोक्तलिङ्गविधिः / इत्थं क्रियापरिणता: पर्यायं पालयन्ति बुधाः / / 76 / / टीका - न नैव एवं यथोक्तं परेण, यद् यस्माद् जिनोक्तलिङ्गविधि: जिनोक्तं भगवत्प्रणीतं लिङ्गं यतिचिह्न रजोहरणम् अस्य च ग्रहणे विधि: अयं चैत्यवन्दनादिलक्षणः प्राप्तो मयाऽत्यन्तदुराप इत्येवं चिन्तयतो मार्गानुसारिसत: शुभभावात् प्रायो बाहुल्येनासौ विरत्युपायो विरतिपरिणामजनको भवति। कथं गम्यत इति चेत्, उच्यते - इत्थं अनन्तरोक्तविधिना क्रियापरिणता: चैत्यवन्दनादिक्रियाभाविता: प्रव्रजिता वयमिति सत्पुरुषा: प्राय: परलोकविरुद्धपरिहारेण पर्यायं प्रव्रज्यालक्षणं पालयन्ति संरक्षन्ति यावज्जीवं बुधाः सुधियः, अतो विरतिपरिणामसामर्थ्यमेतदिति। यच्चोक्तं प्रव्रज्याविधिविरहेणापि विरतिपरिणामो भरतादीनां श्रूयते तत्कादाचित्कभावकथनं न च प्रायो युज्यतेऽत्र विचारे यत: सूत्रे व्यवहारनिश्चयनयौ द्वावपि समौ प्रतिपादितौ भगवद्भिः। तथा चोक्तम् - जइ जिणमयं पवज्जह, ता मा ववहारणिच्छए मुअह / ववहारणउच्छेए, तित्थुच्छेओ जओऽवस्सं / / 1 / / ववहारपवत्तीइवि सुहपरिणामो तओअकम्मस्स / नियमेणमुवसमाई निच्छयणयसम्मयं तत्तो / / 2 / / (पंचवस्तु गा. 172-73) इदमप्यत्र ध्येयम् - योऽपि भरतादीनां प्रव्रज्याविधिविरहेण विरतिपरिणाम: श्रूयते सोऽपि जन्मान्तराऽभ्यस्तप्रव्रज्याविधानपूर्वक इति जिना ब्रुवत इति / / 76 / / यच्चोक्तं विरतौ सत्यां विफल इत्यादि तनिराकरणायाह - महामहोपाध्याय श्री यशोविजय विरचितं 27 मार्गपरिशुद्धिप्रकरणंसटीकम्