________________ देसे कुलं पहाणं, कुले पहाणे अजाइमुक्कोसा। तीएऽविरुवसमिद्धी, रूवे अबलं पहाणयरं / / 2 / / होइ बलेऽवि अजीअं, जीएऽवि पहाणयं तु विण्णाणं / विण्णाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती / / 3 / / सीले खाइअभावो, खाइअभावेऽवि केवलं नाणं / केवल्ले पडिपुने, पत्ते परमक्खरो मोक्खो / / 4 / / पण्णरसंगो एसो, समासओ मोक्खसाहणोवाओ। एत्थ बहुं पत्तं ते,थेवं संपावियव्वंति / / 5 / / ता तह कायव्वं ते, जहतं पावेसिथेवकालेणं / सीलस्स नत्थासझं, जयंमि तं पाविअंतुमए / / 6 / / लक्षूण सीलमेअं, चिंतामणिकप्पपायवऽन्महि / इह परलोए अतहा, सुहावहं परममुणिचरिअं / / 7 / / एअंमि अप्पमाओ, कायव्वो सइ जिणिंदपन्नत्ते / भावेअव्वं च तहा, विरसं संसारणेगुण्णं / / 8 / / भूतेषु - प्राणिषु ‘जङ्गमत्वं' द्वीन्द्रियादित्वं, तेष्वपि-जङ्गमेषु पञ्चेन्द्रियत्वमुत्कृष्टं - प्रधानं, तेष्वपि-पञ्चेन्द्रियेषु :मानुषत्वमुत्कृष्टमिति वर्तते, मनुजत्वे आर्यो देश उत्कृष्ट इति गाथार्थः / / 1 / / देशे आर्ये कुलं प्रधानमुग्रादि, कुले प्रधाने च जातिरुत्कृष्टा मातृसमुत्था, तस्यामपि जातौ रूपसमृद्धिरुत्कृष्टा, सकलाङ्गनिष्पत्तिरित्यर्थः, रूपे च सति बलं प्रधानतरं, सामर्थ्यमिति गाथार्थः / / 2 / / भवति बलेऽपि च जीवितं, प्रधानमिति योगः, जीवितेऽपि प्रधानतरं विज्ञानं, विज्ञाने सम्यक्त्वं, क्रिया पूर्ववत्, सम्यक्त्वेशीलसम्प्राप्ति: प्रधानतरेति गाथार्थः ।।३।।शीले क्षायिकभावः प्रधानः, क्षायिकभावे च केवलं ज्ञानं, प्रतिपक्षयोजना सर्वत्र कार्येति, कैवल्ये प्रतिपूर्णे प्राप्ते परमाक्षरो मोक्ष इति गाथार्थः / / 4 / / पञ्चदशाङ्गः-पञ्चदशभेदः एषः - अनन्तरोदित: समासत:-सङ्क्षपेण मोक्षसाधनोपाय:-सिद्धिसाधनमार्गः, अत्र-मोक्षसाधनोपाये बहु प्राप्तं त्वया, शीलं यावदित्यर्थः, स्तोकं सम्प्राप्तव्यं, क्षायिकभावकेवलज्ञानद्वयमिति गाथार्थ: / / 5 / / तत्तथा कर्त्तव्यं त्वया यथा तत् - शेषं प्राप्नोषि स्तोककालेन, किमित्यत आह - शीलस्य नास्त्यसाध्यं जगति, तत्प्राप्तं त्वया, प्रव्रज्या प्रतिपन्नेति गाथार्थः / / 6 / / लब्ध्वा शीलमेतत्, किंविशिष्टमित्याह - चिन्तामणिकल्पपादपाभ्यधिकं, निर्वाणहेतुत्वेन, एतदेवाह-इहलोकेपरलोके च तथा सुखावहं परममुनिभिश्चरितम् आसेवितमिति गाथार्थः / / 7 / / एतस्मिन्-शीले अप्रमादो-यत्नातिशय: कर्तव्य: सदा-सर्वकालं 'जिनेन्द्रप्रज्ञप्ते' तीर्थकरप्रणीते, अप्रमादोपायमेवाह - भावयितव्यं च तथा - शुभान्त:करणेन विरसं संसारनैर्गुण्यं वैराग्यसाधनमिति गाथार्थः / / 8 / / (सटीकपञ्चवस्तु.गा.१५६-१६३) | महामहोपाध्याय श्री यशोविजय विरचितं 26 मार्गपरिशुद्धिप्रकरणंसंटीकम्