________________ अन्ये तु जिनादीनां वासान् ददतीह भणति वन्दित्वा / सूरि: प्रवेदयेति प्रदक्षिणां शिष्यकः कुरुते / / 71 / / स नमस्कारोच्चारं वासानथ सूरिसाधवो ददति / कार्य: त्रिवारमेवं पुनरप्युत्सर्गमेके तु / / 72 / / टीका - अन्ये स्वव्यतिरिक्ता आचार्या: तु शब्दो विशेषद्योतनार्थ: इह सामायिकारोपणानन्तरं सप्तषष्ठीगाथोदितप्रकारेण वासान् प्रतीतान् ददति यच्छन्ति जिनादीनां, न चैवमपि कश्चिद्दोषः, किन्तु गुण एव यतो गुरुरपि जिनादिभ्यो द्रव्यवितरणपूर्वकं निस्तारकादि आशीर्वादरूपं निर्वचनवाक्यं तत्र भणतीति। अथ शिष्येणानन्तरोदिते उक्ते सति सूरि: गुरु: भणति निर्वक्ति - वन्दित्वा प्रणम्य प्रवेदय ज्ञापय इति। तदनन्तरं नमस्कारोच्चारं नमस्कारमस्खलितं पठन् प्रदक्षिणां जिनादीनां कुरुते विदधाति स शिष्य कः उपयुक्तः सन्निति। अथ अत्रान्तरे वासान् प्रतीतान् सूरिसाधव: आचार्य: शेषसाधवश्च शिष्यस्य शिरसि ददति प्रयच्छन्ति, उपलक्षणाद्आर्याजनःश्रावकश्राविकाजनोऽपि तन्मस्तकेऽभिमन्त्रितवासमिश्रितानक्षतान् ददाति। कार्य: विधातव्य: त्रिवारं तिस्रो वारा एवं प्रदक्षिणादिः, यदि वा वन्दित्वादित आरभ्य इच्छाकारेण सामायिकं मे आरोपयत इत्यादिः / पुनरपि मुहुरपि उत्सर्ग कायोत्सर्ग कारयन्ति एके तु आचार्या आचरणया, तत्राऽप्यदोष एवेति / / 71-72 / / अथ प्रवेदने तपोविषयकमाह - , आचाम्ले नियमं वदन्ति किल संश्रिता निजावलिकाम् / निपतति शिष्य : पदयोस्ततश्च जिनसाधुसूरीणाम् / / 73 / / टीका - आचाम्ले प्रतीते नियमं कर्तव्यतया वदन्ति केचनाचार्याः किल यतस्ते संश्रिता: लग्ना: निजावलिका स्वकीयपरम्पराम्। शेषाणामपि ये न कारयन्ति तेषां नास्त्येव दोषः / ततश्च प्रवेदनानन्तरं पुनः निपतति प्रणमति शिष्य : शैक्षकः पदयो: चरणयो: जिनसाधुसूरीणां - अर्हदाचार्ययो: शेषसाधूनामपि भावसारमिति / / 73 / / ततः वन्दन्ते च तमन्ये गुरुरप्युपदिशति धर्मसर्वस्वम् / शीले मोक्षनिदाने प्राप्ते कार्यः प्रमादो नो / / 74 / / टीका - वन्दन्ते च विधिना तं प्रव्रजितम् अन्ये आर्याजनः 'पुरुषोत्तमो धर्म' इति कृत्वा श्रावकश्राविकाश्च। तत: शिष्य: असम्भ्रान्त: सन् आचार्यसमीपे चोपविशति। गुरुरपिआचार्योऽपि धर्मसर्वस्वं वक्ष्यमाणलक्षणं उपदिशति कथयति यथाऽन्योऽपि संवेगातिशयात् संसारविरक्तः सन् प्रव्रज्यां प्रपद्यते। कथं कथयतीत्यत्राह - शीले सर्वसावद्यविरतिलक्षणे मोक्षनिदाने परमपदकारणे प्राप्ते लब्धे सति प्रमादो विषयकषायादिलक्षणो नो नैव कार्यो विधातव्यः / विस्तरतस्तु यथा - - भूतेसु जंगमत्तं, तेसुऽवि पंचिंदिअत्तमुक्कोसं। तेसुवि अमाणुसत्तं, माणुस्से आरिओ देसो / / 1 / / महामहोपाध्याय श्री यशोविजय विरचितं 25 मार्गपरिशुद्धिप्रकरणंसटीकम्