________________ इच्छाकारेणाऽस्मान् मुण्डयतेत्यथ सभणति वन्दित्वा / 'इच्छाम' इति भणित्वा त्रिप्रपठन् पञ्चमङ्गलकम् / / 63 / / अष्टास्तिस्रोऽच्छिन्ना गृह्णाति गुरुस्ततः स भणतीदम् / मम सामायिकमिच्छाकारेणारोपयत यूयम् / / 64 / / टीका- अथ रजोहरणार्पणानन्तरं स शिष्यो समवसरणं त्रि:प्रदक्षिणीकृत्य पूर्वोत्तरस्यां दिशि गत्वाऽऽभरणादि त्यक्त्वा, तत: शिखास्थानीयान् स्तोकान् विहाय शेषान् शिरोजान् नापितपार्श्वे कर्तयति। तत: शीतोदकेन स्नातं तं शिष्यं साधव: पूर्वोत्तरदिगभिमुखं स्थाप्य यतिवेशं परिधापयति। तदनन्तरं गुरुसमीपमागत्य 'मत्थएण वंदामी'ति भणित्वेर्यापथिकांप्रतिक्रम्य भणति पुन: प्रार्थयति गुरूंवन्दित्वा बहभक्तिसंयुक्तः प्रणम्य किमित्याह- इच्छाकारेण पूर्ववत् अस्मान् भवदुपसम्पन्नान् मुण्डयत दीक्षार्थं केशान्लुञ्चयत इति एवं भणतीति। गुरुरपि इच्छाम अभिलषाम इति एवं भणित्वा उक्त्वा त्रिप्रपठन् त्रि: त्रीन्वारान् प्रपठन् उच्चारयन् पञ्चमङ्गलकं परमेष्ठिनमस्कारमहामन्त्रं अष्टाः अङ्गष्ठप्रदेशिनीसंदंशकग्राह्यकेशलक्षणा: तिस्रः त्रिसंख्या: अच्छिन्ना: अस्खलिता: गुरुः स्थिरहस्तो गृह्णाति लुञ्चयति। अत्राह - पठ्यते च धातुपाठे 'दीक्षा मौंड्य' इति, तदिह किं द्रव्यमुण्डनमपि दीक्षा? सत्यं, द्रव्यमुण्डनमपि मिथ्यात्वक्रोधादियुक्तचित्तरूपभावमुण्डनस्य कारणत्वेन प्रतीकत्वेन चाऽभ्युपगतत्वात्, न हि अप्रशान्तचित्तो धर्माधिकारी भवतीति) यत्तु हठयोगप्रक्रियानुसारिणः शिखास्थानीयकेशलुञ्चनं ब्रह्मरन्ध्रोद्धाटार्थं वदन्ति तदपि समाधेयम्, यत: अनन्तरोक्तकेशलुञ्चनस्य कायक्लेशरूपबाह्यतपस्त्वेन क्लिष्टकर्मनिर्जराफलत्वात् प्रत्यक्चैतन्यसञ्चारोपपत्तेः इत्यलं प्रासङ्गिकेन, प्रकृतं प्रस्तुमः। ___ ततः तदनन्तरं स शिष्यो भणति पुन:प्रार्थयति इदं वक्ष्यमाणम् इच्छाकारेण छन्दसा मम मयीत्यर्थः सामायिकं सर्वसावद्यविरतिरूपम्आ रोपयत निवेशयत यूयं भवन्त इति / / 64 / / तत: - इच्छाम इति भणित्वा सार्धं शिष्येण सूत्रमाकृष्य / कुरुते कायोत्सर्ग गुरुस्तदारोपणनिमित्तम् / / 65 / / टीका - इच्छाम: पूर्ववत् इति एवं भणित्वा उक्त्वा सार्धं सह शिष्येण मुमुक्षुणा गुरुः आचार्य: सूत्रम् अन्नत्थ उससिएणमित्यादि आकृष्य पठित्वा कुरुते अनुतिष्ठति कायोत्सर्ग प्रतीतं तत्र स्थितश्च ‘लोगस्सउज्जोअगरे यावत् सागरवरगंभीरा' चिन्तयेत्, तदारोपणनिमित्तं सामायिकारोपणार्थमिति / / 65 / / तदनन्तरम् - उत्सार्य नमस्कारोच्चारेणैतेन सह गुरुः सूत्रम् / पठति त्रिरथ शिष्योऽप्यनुपठति विशुद्धपरिणामः / / 66 / / टीका - कायोत्सर्गे लोकस्योद्योतकरं चिन्तयित्वा नमस्कारोच्चारेण 'नमो अरिहंताणं' इति पाठेन उत्सार्य पारयित्वा कायोत्सर्गम् एतेन परमेष्ठिनमस्कारेण सह सार्धं पञ्चपरमेष्ठिनमस्कारपूर्वमित्यर्थः गुरुआचार्य: सूत्रं महामहोपाध्याय श्री यशोविजय विरचितं 23 मार्गपरिशुद्धिप्रकरणंसटीकम् |