SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ रजोहरणमिति संज्ञा भणिता विहिता तीर्थकरगणधरैः / यस्माद् हेतोः इह मौनीन्द्रप्रवचने सर्वेऽपि निखिला अपि संयमयोगा: प्रत्युपेक्षितप्रमृष्टभूभागस्थानादिव्यापारा बध्यमानकर्महरास्तेषां कारणं रजोहरणमिति कारणे कार्योपचारः। इत्थं सुष्ठूक्तम् एतदायत्ता: रजोहरणाधीना: सर्वेऽपि संयमव्यापारास्तस्मात् कारणाद् जोहरणमित्यन्वर्था संज्ञेयमिति / / 60 / / ननु प्रमार्जने सति पिपीलिकामत्कोटादीनां विनाशात् प्रबन्धगमनव्याघाताभोग्यसिक्थादिविरहाद्र जसा दरिस्थगनेन तत्संघट्टनादेश्चोपघातो भवतीति रजोहरणं संयमयोगानां न कारणमिति दिगम्बरमतमाशङ्क्य तन्निरासायाह इदमित्थमेव दृष्ट्वा प्रमार्जने प्राणिनामनुपघातात् / आगाढव्युत्सर्गप्रभृतौ पुनरन्यथा दोषः / / 61 / / टीका - इदं बाह्यपृथिवरज:प्रभृत्यभ्यन्तरबध्यमानकर्मलक्षणरजोहरणं निरुक्तं च इत्थमेव पूर्वोक्तरीत्या संयमयोगानां रजोहरणाभिधानोपकरणाधीनत्वप्रदर्शनेन सङ्गच्छते। कस्मात् ? दृष्ट्वा प्रत्युपेक्ष्य प्रमार्जने सति प्राणिनां पिपीलिकादीनाम् अनुपघातात् उपहननम् उपघात:, न तथाऽनुपघातस्तस्मात्।आगाढव्युत्सर्गप्रभृतौ आगाढ: अनिवार्यो व्युत्सर्गो वर्चआदेः आदिशब्दाद् रात्रौ लघुशङ्कादिपरिग्रहस्तस्मिन् पुन:शब्दो विशेषद्योतने अन्यथा अप्रमार्जने दोष : प्राण्युपघातलक्षणः, यो हि कथञ्चित्पुरीषोत्सर्गमाश्रित्यासहिष्णु: संसक्तं च स्थण्डिलं तेन दयालुना स तत्र न कार्य: कार्यो वेति द्वयी गति:, किञ्चाऽत:? उभयथाऽपि आत्मपरपरित्यागलक्षणो दोषः, तथाहि - अकरणेआत्मपरित्यागः, करणे परपरित्याग इति, एवं द्विधाऽपि तीर्थङ्करस्याऽकौशलमापद्यते। तच्च कुशलस्याऽऽपादने आशातनेति। ननु प्रत्युपेक्ष्य चक्षुषा पिपीलिकाद्यनुपलब्धौ सत्यां प्रमार्जने मा भूत्तदुपघातदोषः, तदुपलब्धौ तूपघातदोषो भवत्येवेति चेत्। न, तदुपलब्धावपि प्रयोजनविशेषे यतनया प्रमार्जनं सूत्र उक्तमिति नैवोपघातदोषो भवति। स्यादेतत् - सत्त्वानुपलब्धौ किमर्थं प्रमार्जनमिति चेत्। उच्यते - सूत्रोक्ततथाविधसत्त्वसंरक्षणार्थमिति / / 61 / / दोषान्तरपरिजिहीर्षयाह - संसर्जनादिदोषा विधिपरिभोगे न सन्ति देह इव। . इत्थमपीहाऽनास्था दिक्पटनटनाटकं विषमम् / / 62 / / . टीका- संसर्जनादिदोषा: पूर्वपक्षवाद्यभिहिता रजोदरीस्थगनतत्संघट्टनादिसत्त्वोपघातलक्षणाः, विधिपरिभोगे सूत्रोक्तविधिना धारणे व्यापारणे च न नैव सन्ति जायन्ते देह इव शरीर इव, अविधिना त्वसमञ्जसाहारस्य देहेऽपि भवन्त्येव। ननु देहस्तु संयमोपकारीति धारणीयो व्यापारणीयश्चैवेति चेत्। उच्यते-तुल्यमेतद्र जोहरणविषयेऽपि, तस्याऽपि संयमोपकारित्वाद्धारणीयत्वं व्यापारणीयत्वं चाऽविरुद्धमेवेति। उपसंहरन्नाह - इत्थमपि देहस्येव रजोहरणस्यापि संयमोपकारित्वाद् धारणीयत्वे परिभोग्यत्वे च सिद्धे सत्यपि यदि वा स्वल्पा भवन्तोऽपि संसर्जनादिदोषा देहाऽऽहारादितुल्यत्वाद् बहुगुणा एव तथापि इह रजोहरणधारणपरिभोगविषये दिगम्बरस्य अनास्था अनाश्वास: अस्ति तन्नुनं दिक्पटनटनाटकं दिक्पटस्य दिगम्बरस्य शूकरस्थानीयस्यैव नटस्य शैलूषस्य ऐरावणस्थानीयाहदादिमहापुरुषचेष्टितमिथ्याभिनयकारित्वाद् नाटकं ताण्डवं विषमं श्रीजिनाज्ञावज्ञयाऽसमञ्जसतया च विपाकदारुणत्वात्। तथा त्यक्तारम्भपरिग्रहाणां महात्मनां स्वदेहेऽपि ममत्वाभावाद् रजोहरणादेश्च तुच्छत्वान्नाऽपि परिग्रहदोष इत्यलं प्रासाङ्गिकेन। विशेषार्थिना तु ग्रन्थकारविहिता शास्त्रवार्तासमुच्चयस्य स्याद्वादकल्पलताख्या टीकाऽवलोकनीयेति / / 62 / / अथ मुण्डनविधिमाहमहामहोपाध्याय श्री यशोविजय विरचितं 22 मार्गपरिशुद्धिप्रकरणं सटीकम्
SR No.004398
Book TitleMargparishuddhi Prakaranam
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherBhidbhanjan Parshwanath Jain Sangh
Publication Year2002
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy