________________ प्रव्राजक आचार्य आत्मनैवाऽन्यसाधुभि: शैक्षकेन च सह चैत्यानि वन्दत इत्यर्थः / / 56 / / अथ चैत्यवन्दनविधिविशेषमाह - अस्खलितादिगुणयुतै: सूत्रैः स्तुतिभिश्च वर्धमानाभिः / नो चेदसमाचारी सूत्राज्ञाया व्यतिक्रमतः / / 57 / / टीका - देवादिपुरत: स्थितो गुरुस्तद्वामपार्श्वे च शिष्यः शेषाश्च साधवो यथाक्रमं स्थिता: अस्खलितादिगुणयुतैः नस्खलितंन मिलितमित्यादिवक्ष्यमाणगुणयुतैः सूत्रैः शक्रस्तवादिलक्षणैः स्तुतिभिश्चअर्हदादिसत्काभिश्च, कीदृशाभि:? वर्धमानाभि: छन्दपाठाभ्यां प्रवृद्धाभिर्वन्दन्त इति शेषः / एवमस्खलितादिगुणयुतैः सूत्रैर्वर्धमानाभिश्च स्तुतिभि: नो चेद् यदि न वन्दन्ते तर्हि असमाचारी अस्थितिज्ञेया। कस्मात्? सूत्राज्ञाया: सूत्राज्ञा आगमार्थस्तु - अस्खलितादिगुणयुतैः सूत्रैर्वन्दना दातव्येति, तस्या व्यतिक्रमत: स्थानमुच्चारणं वा प्रति विधिविपर्ययादिति / / 57 / / अथ रजोहरणार्पणविधिमाह - वन्दित्वा पुनरुत्थितगुरुभ्य इह वन्दनं समं दत्त्वा / मामिच्छाकारेण प्रवाजयतेति भणति शिशुः / / 58 / / इच्छामीति भणित्वाऽभ्युत्थायाऽऽकृष्य पञ्चमङ्गलकम् / * अर्पयति रजोहरणं भगवत्कथितं गुरुर्लिङ्गम् / / 59 / / टीका - वन्दित्वा गुरुभि: सार्ध देवादीन् द्वितीयप्रणिपातदण्डकावसानवन्दनेन मध्यमदेववन्दनेनेत्यर्थः, शिष्य: पुन:शब्दो विशेषद्योतने उत्थितगुरुभ्यः प्रणिपातान्निषण्णोत्थितेभ्य आचार्येभ्यः इह दीक्षाविधौ वन्दनं द्वादशावर्तलक्षणं समं देवाद्यभिमुखमेव दत्त्वा कृत्वा भणति प्रार्थयति शिशुः शिष्यः - माम् उपलक्षणादस्मान् इच्छाकारेण छन्दसा प्रवाजयत अभिनिष्क्रामयतेति / / 58 / / __ इच्छामि अभिलषामि इति एवं भणित्वा उक्त्वा अभ्युत्थाय ऊर्ध्वं स्थित्वा आकृष्य पठित्वा पञ्चमङ्गलकं परमेष्ठिनमस्कारमहामन्त्रं 'सुग्गहीयं करेह' इति भणन् गुरु : आचार्य: अर्पयति शिष्यश्च 'इच्छामिति भणित्वा प्रतीच्छति भगवत्कथितं जिनप्रज्ञप्तं लिङ्गं यतिचिह्न समुखवस्त्रिकया रजोहरणं वक्ष्यमाणस्वरूपंधर्मध्वजमित्यर्थः। अयं विशेष: - रजोहरणमर्पयन् गुरू रजोहरणदशा: पूर्वोत्तरान्यतमदिशाभिमुखस्थितशिष्यस्य दक्षिणपार्श्वतो यथा भवन्ति तथाऽर्पयतीति। तत: शिष्योऽपि रजोहरणं शिरसि समारोप्य नृत्यन् समवसरणं त्रि: प्रदक्षिणीकरोतीति / / 59 / / ननु यतिलिङ्गस्य रजोहरणमिति संज्ञा किमर्थमित्याशङ्कायामाह - अन्वर्था संज्ञेयं कारणकार्योपचारतो भणिता / संयमयोगा यस्मादिह सर्वेऽप्येतदायत्ताः / / 60 / / टीका - अन्वर्था अनुगताऽर्थं सार्थिकेत्यर्थः संज्ञा अभिधानम् इयं रजोहरणलक्षणा कारणकार्योपचारतः कारणे कार्यस्योपचारात्, तथाहि - हरति जीवानां रज: अभ्यन्तरं बध्यमानकर्मलक्षणं बाह्यं च पृथ्वीरज:प्रभृति तेन महामहोपाध्याय श्री यशोविजय विरचितं 21 मार्गपरिशुद्धिप्रकरणंसटीकम् |