________________ त्यक्तस्यापि गृहवासगताऽऽरम्भपरिग्रहस्य देवाद्यर्थं शब्दभेदेन तथाविधाऽऽरम्भादिषु पुन: प्रवृत्तत्वाद् ग्रहणं स्वीकरणमेवाऽऽपद्यते, हिशब्दोऽवधारणे। कुतश्चैतत्त्यक्तग्रहणमित्याह - अविवेकशक्तिकृतम्अज्ञानसामर्थ्यविहितमेतदिति / / 45 / / एतदेव स्पष्टयति - ध्वनिभेदेऽपि सपापं प्रकृतेर्न हितं हि मधुरकादीव / ___ सापेक्षस्य यतनया तदनुमतिर्नैव विहितार्थे / / 46 / / टीका - ध्वनिभेदेऽपि शब्दभेदेऽपि देवाद्युद्देशेन क्रियमाणमारम्भपरिग्रहादि सपापं सदोषं प्रतिज्ञालोपाद्दुर्गतिदायकत्वाच्च प्रकृते: स्वाभाव्यादेवाऽऽरम्भपरिग्रहादिन नैव हितं स्वोपकारकं हिशब्दोऽवधारणे भिन्नक्रमश्च मधुरकादीव विषशीतलकादिवत्प्राणाऽपहारपीडाकारित्वात्। अथाऽऽरम्भादि न हिताय तर्हि किमिति यतीनामपि श्रावकानुद्दिश्योपदेशे प्रवृत्तितोऽनुमति: क्वचिच्च साक्षाज्जिनायतने लुताद्यपनयनलक्षणाऽऽरम्भप्रवृत्तिरिति चेद्; उच्यते- सापेक्षस्य गच्छवासिन: कूपोदाहरणेन श्रावकयोग्यशास्त्रार्थोपदेशे तथा श्रावकाद्यभावे तीर्थनाशो मा भूदिति कारणेन यतनया आगमोक्तविधिना परार्थं विहितार्थे विहितानुष्ठाने निरीहत्वेन प्रवृत्तत्वाद् नैव नास्त्येव तदनुमति : आरम्भाद्यनुमतिरिति / / 46 / / अथ प्रस्तुतमाह - गुणधर्मानुपघातौ नि:स्वस्याप्यपगताऽविवेकस्य / सूत्रन्तु व्यवहाराद् युक्तो हुस्तत्र वाप्यर्थः / / 47 / / टीका- गुणधर्मानुपघातौ गुणश्च ज़गज्जीवाऽभयप्रदानतीर्थाऽव्युच्छित्तिप्रभृतिलक्षणोधर्मानुपघातश्च प्रवचनाऽपीडा च सम्प्रतिजीवद्रमकदृष्टान्तेन आस्तां त्यक्तभोगविभवानां नि:स्वस्यापि दुर्गतस्याऽपि अपगताऽविवेकस्य अपेताऽज्ञानस्य तुच्छत्वमदादिदोषाभावात्। तर्हि ‘से हु चाइत्ती' त्यादिसूत्रस्य का गतिरिति चेद्, उच्यते - सूत्रम् उक्तलक्षणं तुशब्दो विशेषद्योतनार्थ:, व्यवहारात्व्यवहारनयाऽभिप्रायात् प्रवर्तते वा विकल्पे हुः हुशब्दश्च तत्र सूत्रे अप्यर्थः उक्तव्यतिरिक्त समुच्चयार्थे वर्तत इत्यर्थः / तथा च सूत्रोक्तत्यक्तभोगविभवव्यतिरिक्तनि:स्वानामपि प्रव्रज्याऽविरुद्धा निर्निदानतपोऽनुष्ठानाद् हननपचनक्रयणकृतकारिताऽनुमतिभेदेन कोटिनवोद्यमपरित्यागाच्चेति / / 47 / / अथोभययुक्तानां तु गुणमाह - प्रतिबन्धत्यागपरो बाह्यत्यागोऽपि तेन युक्तमदः / जिनधर्मोन्नतिकारणमुभयत्यागी तु धन्यतरः / / 48 / / टीका - येन हेतुना प्रतिबन्धत्यागपर:अविवेकपरिहारयुक्तः,आस्तां कषायाद्याभ्यन्तरत्यागो बाह्यत्यागोऽपि समुपलब्धेोत्कटीवषयसुखप्सम्यागोपिजिमधर्मेनसिकारण अपेषामपिप्पलै प्रकल्पापरीन्प्रत्यपछि हेतुरिति उभयत्यागी कनकादिद्रव्याऽविवेकादिभावपरित्यागवान् तुशब्दो विशेषद्योतना अविवेकत्यागिनि:स्वाऽपेक्षया धन्यतर: धर्मधनस्याऽधिको योग्य:, तेनैव हेतुना ‘सुखिनां प्रव्रज्या फलवती'ति यदुक्तम् अद: तद् युक्तंन्यायोपेतमिति / / 48 / / अथ कस्मिन् क्षेत्रादौ प्रव्रज्या देयेत्याह - इक्षुवने जिनभवने, समवसृतौ क्षीरवृक्षवनखण्डे / गम्भीरसानुनादे, दीक्षा देया शुभे क्षेत्रे / / 49 / / महामहोपाध्याय श्री यशोविजय विरचितं 17 गार्गपरिशुद्धिप्रकरणंसटीकम्