________________ जगत: स्रष्टा। सर्वे जीवा: स्वस्वकर्मवशगाश्चतुर्गतिके संसारे बम्भ्रमन्ति। सृष्टिवादनिराकरणं तु विस्तरतोऽन्यत्र लोकानादित्वविंशिकादौ प्रपञ्चितमित्यलं विस्तरेण। एवं सति किं तथ्यमित्याह - न नैवविधित्यागे - पञ्चसूत्रादिशास्त्रोपदर्शितेन विधानेन स्वजनत्यागेआस्तां महादोष: अल्पदोषोऽपि स्वल्पमपि पापं नास्तीत्यर्थः, जिनोपदिष्टविधिप्रवृत्तत्वादिति / / 41 / / अथाऽन्यन्मतमाह अन्ये त्वाहुः सुखिनां प्रव्रज्या फलवती न चान्येषाम् / नाऽत्यक्तभोगविभवा: पात्रं गम्भीरभावस्य / / 42 / / टीका - अन्ये उक्तव्यतिरिक्ता: परवादिन: तुशब्दो विशेषद्योतनार्थ: आहुः प्रतिपादयन्ति, तथाहि - सुखिनां सुखयतीति सुखं तद्वतां पुण्यशालिनामित्यर्थः प्रव्रज्या दीक्षा फलवती सफला विषयाद्यौत्सुक्यनिवृत्तेः / न नैव च पुन: अन्येषां सुखिव्यतिरिक्तानां दुःखिनामित्यर्थः। अत्र हेतुमाहुः - न नैव अत्यक्तभोगविभवाः अनुत्सृष्टसमुपलब्धविषयसुखसम्पदः पात्रं योग्या गम्भीरभावस्य प्रव्रज्यालक्षस्योदारभावस्य।अनुदारचित्ताश्चाऽयोग्या इति गाथार्थः / / 42 / / किञ्च - अधिकतरं प्रव्रज्यापर्यायं प्राप्य ते हि माद्यन्ति / क्षुद्रप्रव्रज्यातो लोके धर्मोपघातोऽपि / / 43 / / टीका - अधिकतरं पूर्वावस्थाऽपेक्षया शोभनतरं प्रव्रज्यापर्यायं दीक्षाऽवस्थां प्राप्य आसाद्य ते हि तुच्छभावा एव प्रायो माद्यन्ति मानमुद्वहन्ति। तथा क्षुद्रप्रव्रज्यातो दरिद्रदीक्षादानेन लोके प्राकृतलोके धर्मोपघातोऽपि प्रवचनपीडा "प्राय: सर्वेऽपीदृशा एवे''ति लोकप्रवादात्। अपि च - भोगाभावान्न ते दरिद्रास्त्यागिन: “साहीणे चयई भोए, से हु चाइ त्ति वुच्चई' त्यादिदशवैकालिकवचनादिति / / 43 / / अत्र प्रतिविधानमाह एतदपि मुग्धविस्मयकरं न युक्तिक्षमं तु मतमुच्चैः।। अविवेकपरित्यागात् त्यागी यनिश्चयनयस्य / / 44 / / टीका - आस्तां पूर्वोक्तानि मतानि एतदपि अनन्तरोक्तमपि मतं मुग्धविस्मयकरम् अनालोचिततत्त्वानां चित्तचमत्कारकारि यतो न नैव तुशब्दो विशेषद्योतनार्थ: युक्तिक्षम पूर्वापरविचारसहम्मतम् अभिप्राय: उच्चैः प्रबलम्। इदमुक्तं भवति - सुखिनां प्रव्रज्या फलवतीति मतमापातरमणीयमेव मूढानाम्, न तु तात्त्विकानां युक्त्याऽनुपपन्नत्वात्। युक्तिमेवाह - न तु केवलं विषयसुखत्यागात् त्यागी भवति, अपितु अविवेकपरित्यागाद् अज्ञानपरिहाराद् यद् यस्मात् त्यागी प्रव्रजितो निश्चयनयस्याऽभिप्रेत इति शेषः / / 44 / / अविवेकत्यागाऽत्यागयो: फलमाह - अविवेकपरित्यागात् पालयति मुनिक्रियां स भावेन / संज्ञाभेदात् त्यक्तग्रहणं ह्यविवेकशक्तिकृतम् / / 45 / / टीका - अविवेकपरित्यागात् अज्ञानपरित्यागात् पालयति समाचरणेन संरक्षति मुनिक्रियां साधुसमाचारी स प्रव्रजितो भावेन यथाविधि। अविवेकसत्तायां तु स्वजनधनादिबाह्यत्यागवतामपि संज्ञाभेदाद्ध्वनिभेदात् त्यक्तग्रहणं महामहोपाध्याय श्री यशोविजय विरचितं 16 मार्गपरिशुद्धिप्रकरणंसटीकम्