________________ टीका - इक्षुवने प्रतीते, जिनभवने अर्हदायतने समवसृतौ भगवदध्यासिते क्षेत्रे वृत्ते क्षीरवृक्षवनखण्डे अश्वत्थादिवृक्षसमूहे गम्भीरसानुनादे महाभोगप्रतिशब्दवति उपलक्षणात् प्रदक्षिणावर्तजलसान्निध्ये शुभे प्रशस्ते क्षेत्रे स्थाने दीक्षा प्रव्रज्या देया वितरणीयेति / / 49 / / अथ निषेधमुखेनाऽप्रशस्तक्षेत्रमाह - शून्ये गृहेऽमनोज्ञे, न तु भग्ने ध्यामिते श्मशाने वा / क्षाराङ्गाराऽवकराऽमेध्यादिद्रव्यदुष्टे वा / / 50 / / टीका - न नैव तुशब्दो निषेधलक्षणविशेषद्योतनार्थ: शून्ये निर्जने गृहे वेश्मनि अमनोज्ञे अरुच्ये भग्ने ध्वस्ते ध्यामिते दग्धे श्मशाने शवस्थाने क्षारागाराऽवकराऽमेध्यादिद्रव्यदुष्टे क्षारो भस्म अङ्गार: प्रतीत: अवकर: कचवर: अमेध्यं अपवित्रं द्रव्यम् आदिशब्दोऽमेध्यस्वभेदमलमूत्रमांसशोणितादिज्ञापकः / एवम्भूतैर्द्रव्यैर्दुष्टे दोषवति क्षेत्रे दीक्षा न देयेति शेषः / वाशब्दौ समुच्चयार्थाविति / / 5 0 / / अथ वर्ण्यकालविषयमाह - . षष्ठ्यां च चतुर्दश्यां द्वादश्यामष्टमीनवम्योश्च / भेषु चतुर्थ्यां सन्ध्यागतादिषु पञ्चदश्यां च / / 51 / / / टीका - षष्ठ्यामित्यादि चतुर्थ्यां षष्ठ्यामष्टम्यां नवम्यां द्वादशम्यां चतुर्दश्यां पञ्चदश्यां च तिथौ शिष्यनिष्क्रमणं न कुर्यादिति शेषः / उक्तशेषासु निर्दोषासु प्रतिपद्वितीयातृतीयापञ्चमीसप्तमीदशम्येकादशीत्रयोदशीषु दद्यादित्यर्थः। अथ वय॑नक्षत्राण्यधिकृत्याह - भेषु नक्षत्रेषु सन्ध्यागतादिषु सन्ध्यागतेषु आदिपदाद् रविगतविड्वेरसग्रहविलंबिराहुगतग्रहभिनेषु च वय॑नक्षत्रेषु दीक्षा न दातव्येत्यर्थः / उक्तं च अत्थमणे संझागय रविगय जहियं ठिओ उ आइच्चो।। विड्डरमवद्दारिय सग्गह कूरग्गहहयं तु / / 1 / / आइच्चपिटुओ जं विलंबि राहूयं तु जहिं गहणं / मज्झेणं जस्स गहो गच्छइ तं होइ गहभिन्नं / / 2 / / संझागयम्मि कलहो आइच्चगते य होइऽनिव्वाणि / विड्डेरे परविजओ सगहम्मि य विग्गहो होई / / 3 / / दोसो अभंगयत्तं होइ कुभत्तं विलंबिनक्खत्ते / राहुहयम्मि य मरणं गहभिन्ने सोणिउग्गालो / / 4 / / / / 51 / / साम्प्रतं नक्षत्राण्येवाधिकृत्य विधिमुखेनाह - तिसृषूत्तरासु कुर्याद् रोहिण्यामपि च शिष्यनिष्क्रमणम् / आरोपणं व्रतानां गणिवाचकयोरनुज्ञां च / / 52 / / टीका - तिसृषु वक्ष्यमाणासु उत्तरासु उत्तराषाढोत्तराफाल्गुण्युत्तराभाद्रपदलक्षणासु, आस्तामनन्तरोक्तासु महामहोपाध्याय श्री यशोविजय विरचितं 18 मार्गपरिशुद्धिप्रकरणंसटीकम्