________________ टीका - ब्रुवते प्रतिपादयन्ति अन्ये स्मार्ताः प्राधान्यं ज्येष्ठत्वं मन्दप्रज्ञा: अतीक्ष्णबुद्धयो यतस्ते न जानन्ति यदारम्भंविना न गार्हस्थ्यम्आरम्भश्च दुर्गतिहेतुरिति, अत एव प्राधान्यं ख्यापयन्ति गृहाश्रमस्यैव गृहस्थाश्रमस्यैव, अवधारणात् सन्न्यासाद्याश्रमप्राधान्यव्यवच्छेदोऽवसेयः। अत्र हेतुमाहुः - उपजीवन्ति आश्रयन्ते यद् यस्माद् एनं गृहाश्रमं सर्वेऽपि निखिला अपि अन्नादिना अशनपानादिना आश्रमिण : सन्न्यासाद्याश्रमवासिनः। तदुक्तं च - गृहाश्रमसमो धर्मो, न भूतो न भविष्यति / तं पालयन्ति ये धीराः, क्लीबा: पाषण्डमाश्रिताः / / 1 / / (मनुस्मृतौ) / / 37 / / अत्र प्रतिविधानमाह तदसदुपजीवनात: प्राधान्यं येन लाङ्गलादे:स्यात् / ज्ञानादिकृतं त्वेतद् व्रतिनि दृढं नो गृहाश्रमिणि / / 38 / / टीका - परेण यद् गृहाश्रमस्य प्राधान्यमुक्तं तदसद् तन्मिथ्या, तथाहि- उपजीवनात: उपजीवनाकृतं प्राधान्यं प्रवरत्वं येन हेतुना परेणाऽऽश्रीयते तेनैव हेतुना गृहाश्रमात् सकाशाद् लाङ्गलादेः हलकर्षकपृथिव्यादेविशिष्टप्राधान्यं स्याद्भवेद्, यतो गृहस्था अपि लाङ्गलादेः सकाशाद्धान्यलाभेन लाङ्गलादीनुपजीवन्ति। अथैवं मन्यसे यदुत हलादयो न जानन्ति यथा वयमुपकारं कुर्मो धान्यप्रदानेनैतेषां धर्मनिरतानां गृहस्थानामिति कथं तेषां हलादीनां प्राधान्यमिति चेत्, उच्यते - ते हलादय: क्रियया प्रधाना यतस्तेभ्यो धान्यादिलाभस्ते उपजीव्यन्ते गृहस्थैः, अतो ज्ञानेन किम्? क्रियाया एव प्राधान्ये सति। अथ ज्ञानादिकृतं ज्ञानसंयमादिनिमित्तं तुशब्दो विशेषद्योतने एतत् प्राधान्यम्, न तु क्रियानिमित्तमिति मन्यसे तर्हि ज्ञानादिकृतं तु प्राधान्यं व्रतिनि चारित्रिणि ज्ञानादीनां विशुद्धत्वात् पापनिबन्धनाऽऽरम्भनिवृत्तेश्च दृढं बाढम्, नो नैव गृहाश्रमिणि गृहस्थ इत्यङ्गीकर्तव्यमिति / / 38 / / अथ ये स्वजनरहितस्य सतो योग्यतां घोषयन्ति तेषां मतमुपन्यस्यति अन्ये त्वत्र जनस्य स्वजनविरहितस्य योग्यतां ब्रुवते / तद्विलपनादि पापं त्यागे खलु पालनीयस्य / / 39 / / / टीका - अन्ये वादिन: तुशब्द:पुनरर्थे अत्र प्रव्रज्यायां जनस्य सतः स्वजनविरहितस्य भ्रात्रादिबन्धुवर्जितस्य योग्यताम् औचित्यं ब्रुवते निरूपयन्ति यत: तद्विलपनादि स्वजनविलपनताडनादि पापं दोष: त्यागे हाने सति खलुशब्दो वाक्यालङ्कारे पालनीयस्य भर्तव्यस्य स्वजनादेः / अयं भाव: - यः स्वजनं विहाय परिव्रजति तस्याऽसौ स्वजनविलपनादि दोषो भवति। अत: स्वजनविरहित एव प्रव्रज्याया योग्य इति / / 39 / / अस्य परिहारमाह - तदसदिहापि हि पापं प्राणवधाद् यत् स पालनेऽभ्यधिकः / आरम्भत: स्वतत्त्वे स्वपरविभागश्च नावगते / / 40 / / टीका - यदनन्तरोक्तं परवादिभि: तदसत् तन्मिथ्या, हेतुमाह - आस्तां स्वजनत्यागे तद्विलपनताऽनादि पापं इहापि गार्हस्थ्येऽपि हि हेतौ पापं दोष: प्राणवधाद् एकेन्द्रियादिसत्त्वोपमर्दात्। एतदेवाह - यद् यस्मात् स दोष: महामहोपाध्याय श्री यशोविजय विरचितं 14 मार्गपरिशुद्धिप्रकरणंसटीकम्