________________ कल्याणं प्राप्त' इति वचनात्। इति अनन्तरोक्तनीत्या अनोन्याश्रयसंकटं, तथाहि - दीक्षाव्यतिरेकेण नाऽणिमादिप्राप्ति:, न चाऽणिमादिलाभं विना दीक्षेतीतरेतराश्रयदोष: प्रकट एव। एवं स्थिते मन्ददोषेषु बालादिषु उक्तं सप्तविंशतिगाथोक्तं 'वयसाऽष्टादिवर्षे' त्यादिलक्षणं नियमं यन्त्रणां विना ऋतेन नैव गतं गति: शरणमित्यर्थः / यदि वाऽन्योन्याश्रयसंकटमुक्तं नियम विना न गतमित्यप्यन्वयोऽदुष्ट एव / / 34 / / अन्यच्च - अपि चान्तरालविघ्नाऽऽशङ्की प्रागेव तन्निवृत्त्यर्थम् / / श्रुतमभ्यस्यन्नधिकं कृतकृत्यो भवति बालयतिः / / 35 / / टीका - अपि च अभ्युच्चये, दीक्षादिनादारभ्य यावज्जीवं यो दीक्षापर्यायकालस्तस्याऽन्तराले विचाले ये केचन संभाव्यमाना विघ्ना अन्तरायास्तानाऽऽशङ्कत इति अन्तरालविघ्नाऽऽशङ्की बालयति: प्रागेव विघ्नव्राताऽऽपातात् पूर्वमेव तन्निवृत्त्यर्थं तेषां विघ्नानां निवारणार्थं श्रुतं द्वादशाङ्ग्यादिलक्षणम् अभ्यस्यन् पुन:पौन्येनाऽध्ययनाध्यापनपरिशीलनतयाऽऽत्मसात्कुर्वन् अधिकं विशेषरूपतयाऽभ्युपगतदीक्षाया निरतिचारपालनात् कृतकृत्य : कृतार्थो भवति सम्पद्यते बालयति: कुमारश्रमणः / श्रुताभ्यासस्य चाऽभ्यन्तरतपोरूपत्वात्, तदुक्तं - सज्झाओ समो णत्थि तवो। तपसश्च भावमङ्गलरूपत्वेनाऽशेषविघ्नवातविदाकरत्वादिति / / 35 / / अथ पूमर्थक्रमाऽनासेवनाद् दोषोपपत्तिः परेणोद्भाविता तां निराचिकीर्षुराह - - न पुमर्थक्रमसेवा त्वेतद्विषयव्यतिक्रमनिमित्तम् / यद्धर्म एव सुखदः प्रतिपक्षावर्थकामौ तु / / 6 / / टीका - न नैव पुमर्थक्रमसेवाधर्मार्थकाममोक्षाणां परिपाट्याऽऽसेवनं तुशब्दोऽवधारणे एतद्विषयव्यतिक्रमनिमित्तं मोक्षसाधकचारित्रग्रहणविषया या बालयुवाद्यवस्था तस्या व्यतिक्रमनिमित्तं व्यत्ययहेतुः यद् यस्माद् धर्म एव श्रुतचारित्रलक्षण एव सुखदः स्वर्गापवर्गशर्मविश्राणकः, प्रतिपक्षौ दुःखप्रदौ पुन: अर्थकामौ प्रकृत्यैव संसारकारणत्वाद् नाममात्रपुमर्थो तुशब्दो पुनरर्थो भिन्नक्रमश्च स योजित एव।अयंभाव: - पुमर्थक्रमसेवा न दीक्षाविषयक-बालाद्यवस्थानिषेधिका यस्माद्धर्म एव सुखद: अर्थकामौ तु नाम्नैव पुरुषार्थों परमार्थतस्तु तावनर्थो। तदुक्तं - पुमा इह चत्वारः, मध्यमौ नामधेयादर्थो तत्त्वतोऽनौँ / अर्थस्तु मोक्ष एवैको, धर्मस्तस्य कारणम् / / (त्रि.श.पु.१० पर्व) अत एव मृत्योर्दृष्टान्तेन दीक्षाग्रहणे कदाचिदपि बालाद्यवस्थायामकालो नास्तीति स्वीकर्तव्यम्। किञ्च - येऽभुक्तभोगदोषा: कौतुकादयः परेणोद्भावितास्तेऽपि बाल्यप्रभृति जिनवचनभाविताऽत्मनां वैराग्यसम्भवादज्ञातविषयसुखत्वाच्च प्रायो न भवन्ति, प्रत्युत भुक्तभोगानां दुष्टतरा: स्मृत्यादयो दोषा सम्भवन्तीति यत्किञ्चिदेतत्। तस्मात् सिद्धमेतद् यदुत जघन्यतोऽष्टवर्षा युक्ता: प्रव्रज्याया इति / / 36 / / अथाऽन्यमतमाह - बुवतेऽन्ये प्राधान्यं मन्दप्रज्ञा गृहाश्रमस्यैव / उपजीवन्ति यदेनं सर्वेऽप्यन्नादिनाऽऽश्रमिणः / / 37 / / | महामहोपाध्याय श्री यशोविजय विरचितं 13 मार्गपरिशुद्धिप्रकरणंसटीकम् |