________________ अविवेकद्वारा खलु यौवनमपकारि तत्त्वतस्तत् स / तदभावस्तद्विगमः स तु न जिनैर्वारितः क्वापि / / 31 / / टीका - अविवेकद्वारा हेयोपादेयज्ञानाऽभावेनैव खलुशब्दोऽवधारणे यौवनं तारुण्यम् अपकारि स्वपरद्रोहकारीति तत्त्वत: परमार्थत: तत् यौवनं स: अविवेक एव। तदभाव: अविवेकाभावश्च तद्विगम: यौवनविगमः। स तु अविवेकाभावस्तु न नैव जिनै: वीतरागैः वारितः प्रतिषिद्धः क्वापि कदाचित्, सदैव तस्याऽविवेकाऽभावस्य बालयुवाद्यवस्थासु सम्भवादिति।।३१ / / अथ पूर्वपक्षोद्भावितसम्भावनीयदोषत्वमाश्रित्याह - तुल्यं च भुक्तभोगेष्वपि भुवि सम्भावनीयदोषत्वम् / प्रत्युत तेष्वधिकबल: कामानां तद्भवाभ्यास: / / 32 / / टीका - बालाद्यपेक्षया तुल्यं च समं च भुक्तभोगेष्वपि अनुभूतविषयसुखेष्वपि ऋषिशृङ्गपितृवडाम्भकप्रभृतिषु भुवि जगति सम्भावनीयदोषत्वं सम्भाव्यमानविषयसेवनाऽपराधत्वम्, प्रत्युत अपि तु तेषु भुक्तभोगेषु अधिकबल: अतिरिक्तशक्तिक: सम्भावनीयदोषहेतुः कामानाम् इच्छामदनरूपाणां तद्भवाभ्यास: प्रव्रज्याग्रहणात् प्राग् गृहिपर्याये पौन:पुन्येनाऽऽसेवनलक्षण: / अत एव बाला: सुन्दरतरा अज्ञातविषयसङ्गाः, अन्यभवाभ्यासस्य तु मनाग् विप्रकृष्टत्वादिति / / 32 / / किञ्च - प्राप्ताऽणिमादिसंज्ञा पुंसामनिवृत्तिबादरादारात् / वेदान्तमविद्याख्यं कर्म दोषो नाऽसम्भाव्यः / / 33 / / टीका - तन्त्रान्तरपरिभाषया प्राप्ताणिमादिसंज्ञाद् आरात् पुंसां पुमर्थपूरकत्वात् पुरुषास्तेषाम्, तदुक्तं च - लघिमा वशितेशित्वं प्राकाम्यं महिमाऽणिमा / यत्राकामावसायित्वं प्राप्तिरैश्वर्यमष्टधा / / 1 / / स्वप्रक्रियया तु क्षपकश्रेणिप्रक्रमे अनिवृत्तिबादराद् नवमगुणस्थानकषष्ठभागाद् आराद् अर्वाग् वेदान्तं पुंवेदादिक्षयपर्यन्तं यावत् तन्त्रान्तरमाश्रित्य अविद्याख्यं तत्त्वं स्वपरिभाषया तु कर्म मोहनीयाख्यमात्मनि स्वसत्तां बिभर्ति तावदोषो कर्मजन्याऽपराधो नाऽसम्भाव्यः नाऽसम्भवी, किन्तु सम्भवत्येवेति / / 33 / / ततः किमित्याह नैतत्प्राप्तिः प्रायो दीक्षाविकलेति मन्ददोषेषु / अन्योन्याश्रयसंकटमुक्तं नियम विना न गतम् / / 34 / / टीका - न नैव एतत्प्राप्तिः एष आनन्दशक्त्यनुबोधेनाऽणिमादिभाव: अनिवृत्तिबादरगुणस्थानकभावो वा तस्य प्राप्तिाभः प्रायो बाहुल्येन दीक्षाविकला प्रव्रज्याशून्या इह जन्मनि पूर्वभवे वा दीक्षां विनेत्यर्थः / मरुदेवीकल्पाश्चर्यभावव्यवच्छेदार्थं प्रायोग्रहणम्, ततश्च तन्त्रान्तरेऽपि स्वपरिभाषया गीयत एव 'अत्यन्तमनवाप्तकल्याणोऽपि महामहोपाध्याय श्री यशोविजय विरचितं 12 मार्गपरिशुद्धिप्रकरणंसटीकम्