________________ टीका - तत् त्रैविद्यवृद्धमतम् अपेशलं तुच्छं यत: यस्मात् खलुशब्दोऽवधारणे भिन्नक्रमश्च बाल्यं बालभाव एव नो नैव चरणभावपरिपन्थि चारित्रविरोधि। यस्मात् चरणभावः कर्मक्षयोपशमज: चारित्रमोहनीयकर्मक्षयोपशमाज्जायते। स कर्मक्षयोपशमो हिर्हेतौ यस्मात् न नैव स्वदशान्तराधीन: स्वस्य चारित्रस्य दशा वयोविशेषरूपाऽनन्तरोक्ता अष्टभ्यो वर्षेभ्य आरभ्य यावत् सप्ततिवर्षाणि तदन्तरा तन्मध्ये याऽवस्था तदधीनस्तस्माद् बाल्यं न चारित्रविरोधि। एतदुक्तं भवति - चारित्रं हि चारित्रमोहनीयक्षयोपशमजं, चारित्रमोहनीयक्षयोपमश्च विविधकारणसापेक्ष:, न तु वयोनिबन्धन एव। तस्माद्वयश्चरणपरिणामयोरविरोधः।क्षयोपशमश्च पूर्वजन्माऽभ्यस्तज्ञानध्यानत्यागवैराग्यसंयमयोगस्तज्जनितश्च नि:स्पृहभावसंस्कारस्तदधीन इति। शेषं तु पूर्ववत्। तदुक्तं - तक्कम्मखओवसमो चित्तनिबंधणसमुब्भवो भणिओ। न उ वयनिबंधणोच्चिय, तम्हा एआणमविरोहो / / 58 / / (पञ्चवस्तुक:) एत्वृत्तिः - तत्कर्मक्षयोपशम: चारित्रमोहनीयकर्मक्षयोपशम: 'चित्रनिबन्धनसमुद्भवो नानाप्रकारकारणादुत्पादो यस्य स तथादिलो भणित: तु वयोनिबन्धन एव उक्तोऽर्हदादिभि: न विशिष्टशरीरावस्थाकारण एष, यस्मादेवं तस्मादेतयो: वयश्चरणपरिणामयो: अविरोध: अबाधा। इति गाथार्थः।।२९ / / नन्वेवं तर्हि किमर्थं वयसि नियमो निर्दिष्टः? उच्यते - नियमस्त्वतिबालानां परिभवनीयत्वभावमान्द्याभ्याम / बाला इव चेष्टन्ते केचन गतयौवना अपि तु / / 30 / / टीका - नियमो वयोविषयक: तुशब्दो विशेषद्योतने अतिबालानां अष्टभ्यो वर्षेभ्य आरात् शिशूनां परिभवनीयत्वभावमान्द्याभ्यां परिभवनीयत्वं बालसुलभतिरस्करणीयत्वं च भावमान्द्यं च बालभावादेव चारित्रपरिणामाऽदाढ्यं परिभवनीयत्वभावमान्द्ये ताभ्याम्। एतदुक्तं भवति - यत: अष्टभ्यो वर्षेभ्य: प्राग् बालत्वेनाऽतिबाल: परिभवभाजनं मन्दचारित्रपरिणामश्च भवति। तत: अष्ट वर्षाणि जघन्यतो वयसि नियमो विहितस्तीर्थकरगणधरैः। यद्येवं तर्हि भवतु प्रव्रज्या प्रवयसामेवेति चेन्न, यतो बाला इव कुमारा इव चेष्टन्ते प्रवर्तन्तेऽसत्कर्मसु विवेकाभावात् केचन न सर्वे गतयौवना अपि अतिक्रान्तयौवना अपि। तु शब्दो विशेषद्योतने, तथाहि - यौवनवन्तोऽपि केचिन्न सेवन्तेऽशुभकर्माणि विवेकसद्भावात्। उक्तं च - अणाइमन्ता इमे जीवा, न एत्थ परमत्थओ कोई जोव्वणत्थो न वा वुड्डओ त्ति। दीसन्ति अविवेगसामत्थओ वुड्डा वि एत्थ जम्मे अणियट्टविसयविसाहिलासा अगणेऊण लोयवयणिज्जं अवियारिऊण परमत्थं अप्पाणयं विडंबेमाण त्ति; हिययाहियमलेण विय दव्वन्तरजोएण कालपरिणामसुक्किले वि करेन्ति कालए केसे, अङ्गकढिणयाच सेवन्ति पारयमद्दणं, वुड्डभावदोसभीरू साहेन्ति इतरं जम्मकालं, वियारसीलयाए परिसक्केन्ति वियडयाई, पयट्टन्ति अपयट्टियव्वे, न पेच्छन्ति झीणमाउं, न चिन्तेन्ति जम्मन्तरं ति।अवरे पुण सुयब्भत्थपरलोगमग्गा तरुणया वि एत्थ जम्मे विवेयसामत्थेण नाऊण विज्जुयाडोवचञ्चलं जीयं, असारयं विसयसुहाणं, विवायदारुणं च पमायचेट्ठियस्स; मच्चुभयभीया विय हरिणया उत्तत्था पावहेऊणं, सेवन्ति परलोयबन्धवं चरणधम्मं ति। ता अकारणं एत्थ जोव्वणं ति। (समराइच्च कहा प्रथमो भागः पृ. 351-52) / / 30 / / एवं सति यत्सिद्धं तदाह - |महामहोपाध्याय श्री यशोविजय विरचितं 11 मार्गपरिशुद्धिप्रकरणंसटीकम् |