________________ श्राद्धस्य हि तथाप्रवर्तमानस्य सुखं नेतरस्येति प्रवर्धयति आर्तध्यानं वृद्धिं नयति गुरोरपि यथाऽसाध्यव्याधिव्याधितश्चिकित्साप्रवृत्तस्य वैद्यस्येवेति / / 26 / / अथ प्रव्रज्याहवयोविषयमाह - वयसाऽष्टादिकवर्षोऽनवकल्पश्चार्हति व्रतादानम् / संस्तारकमुनिभावे भजना त्ववकल्पविषये स्यात् / / 27 / / टीका - वयसा वयो बालयुवादिदशा तेन अष्टादिकवर्ष : अष्ट वर्षाणि जघन्यतो वय:प्रमाणं यतः अष्टभ्यो वर्षेभ्य आरादस्य बालत्वेन परिभवभाजनत्वात्प्रायशश्चारित्रपरिणामाऽभावाच्च निषिद्धा दीक्षा तीर्थकरगणधरैः .. न च वज्रस्वाम्यादीनामल्पवयस्कानामपि दीक्षा श्रूयते, तत्कथमत्र प्रतिषिध्यत इति वाच्यं कादाचित्कभावात्तेषाम्। आदिपदाद् नवदश यावदुत्कृष्टं प्रमाणं सप्ततिवर्षाणि / अनवकल्पश्च अनतिवृद्धश्च, पञ्चवस्तुकमूलगाथायां प्रयुक्तशब्द: "अणवगल्लो' अनवग्लानार्थको ग्लानिरहित: सुशक्त इत्यर्थः, एवम्भूतोऽपि अर्हति संघटते व्रतादानं दीक्षाप्रतिपत्तिम्। अत्राऽपवादमाह - संस्तारकमुनिभावे संस्तारकप्रव्रज्यायां तुशब्दो विशेषद्योतने भजना विकल्प: अवकल्पविषये वृद्धग्लानादिविषये स्याद् भवेद्, यतः कस्यचित्तथाभूतस्याऽऽराधकभावसम्पन्नस्याऽऽयु:शेषेऽपि वृद्धग्लानादेः संस्तारकदीक्षाऽस्मद्गुरुपादानां जनकभगवानदासदृष्टान्तेन दीयत एवेति / / 27 / / अत्र विषये केचन त्रैवेद्यवृद्धादयो भणन्ति बाला न व्रतयोग्या बाल्यात् सम्भावनीयदोषाच्च / योग्यास्तु भुक्तभोगा एतत् त्रैविद्यवृद्धमतम् / / 28 / / टीका - बाला: अष्टवर्षादिवयसो न नैव व्रतयोग्या: चारित्रोचिता: बाल्याद् बालभावात् सम्भावनीयदोषात् सम्भाव्यमानविषयसेवनाऽपराधात् चः समुच्चये।अत एव योग्यास्तु प्रव्रज्यार्हास्तु भुक्तभोगा: अनुभूतविषयसुखा अभ्युपगतनिर्वहणादशङ्कनीयत्वाच्च। किञ्च - धर्मार्थकाममोक्षपुरुषार्थानां स्वस्वकालेऽनासेवनात् तन्निबन्धनकर्मणोऽक्षीणभावेन दोषोपपत्तेः। तथा कौतुककामाऽऽवेशप्रार्थनादयो येऽभुक्तभोगदोषास्तेऽतिक्रान्तयौवनानां परित्यक्ता भवन्ति। तस्मादतिक्रान्तवयसामेव योग्यत्वेनाऽधिकारित्वाद्दीक्षेति। तदुक्तं पञ्चवस्तुके - विण्णायविषयसंगा, सुहं च किल ते तओऽणुपालंति / कोउअनिअत्तभावा, पव्वज्जमसंकणिज्जा य / / 54 / / धम्मत्थकाममोक्खा, पुरिसत्था जं चत्तारि लोगंमि / एए असेविअव्वा, निअनिअकालम्मि सव्वे वि / / 55 / / तहाभुत्तभोगदोसा, कोउगकामगहपत्थणाईआ। एएवि होंति विजढा, जोग्गाहियाण तो दिक्खा / / 56 / / एतद् अनन्तरोक्तं त्रैविद्यवृद्धमतं त्रैवेद्यवृद्धादीनामभिप्राय इति / / 28 / / अत्र ग्रन्थकार आह - तदपेशलं यतः खलु बाल्यं नो चरणभावपरिपन्थि / कर्मक्षयोपशमजः स हि न स्वदशान्तराधीनः / / 29 / / महामहोपाध्याय श्री यशोविजय विरचितं 10 गार्गपरिशुद्धिप्रकरणंसटीकम्