________________ टीका - व्यवहारप्रतिभासो व्यवहार उक्तलक्षणस्तस्य प्रतिभासो भ्रान्ति:, ज्ञानशून्यक्रियाऽभिनिवेशात्, कस्य? दुर्नयकृद्वालिशस्य तत्त्वज्ञानपरिणतिशून्य: क्रियामेव मोक्षहेतुत्वेन मन्यमानो ज्ञानाऽपलापित्वाद् दुनर्यकृच्चासौ बालिशो "ज्ञानक्रियाभ्यां मोक्ष' इत्यस्यानभिज्ञत्वादशस्तस्य भवबीजं संसारभ्रमणहेतुः सद्गुरूपदेशविरहितत्वेन ज्ञानशक्तिशून्यत्वात् क्रियाऽभिनिवेशाच्च। एतद्विपर्ययमाह - व्यवहाराचरणं क्रियाहार्दावगमपुरस्सरं गीतार्थगुरुपारतन्त्र्यपूर्व वा श्रीजिनोपदिष्टक्रियाऽऽसेवनं पुन:शब्द: पक्षान्तरे अनभिनिविष्टस्य स्याद्वादभाविताऽन्त:करणत्वाद् गुरुपारतन्त्र्याद्वा कदाग्रहरहितस्य शिवबीजं मोक्षकारणमिति / / 11 / / एतदेवाऽभ्युच्चयति - गुरुपरतन्त्रस्याऽतो माषतुषादेः पुमर्थसंसिद्धिः / स्फटिक इव पुष्परूपं तत्र प्रतिफलति गुरुबोधः / / 12 / / टीका - गुरुपरतन्त्रस्य गुर्वायत्तस्य अतो गुरुकुलवासादिव्यवहाराचरणाद् माषतुषादेः आदिपदाद् वरदत्तगुणमञ्जर्यादिपरिग्रहः पूर्वजन्मनि विराधितज्ञानस्य निबिडज्ञानावरणीयोदये सत्यपि पुमर्थसंसिद्धिः कैवल्यादिसम्प्राप्तिः। कथम्? स्फटिके जात्यरत्नविशेषे इव यथा पुष्परूपं जपाकुसुमादिगतरक्तिमादि तत्र गुर्वायत्ते जीवस्फटिके मोहनीयलाघवकृतज्ञानावरणीयक्षयोपशमात् प्रतिफलति प्रतिबिम्बति गुरुबोध: गुरुगतज्ञानमिति / / 12 / / दृष्टान्तान्तरेणाऽप्येतदेव प्रतिपादयन्नाह - व्यवहारवतस्तनुरपि बोधः सितपक्षचन्द्र इव वृद्धिम् / इतरस्य याति हानि पृथुरपि शितिपक्षचन्द्र इव / / 13 / / टीका - व्यवहारवतः अनन्तरोक्तलक्षणव्यवहारिण: तनुरपि स्वल्पोऽपि बोध: अवगम: सितपक्षचन्द्र इव शुक्लपक्षरजनीकर इव वृद्धि स्फातिं याति, इतरस्य अव्यवहारिण: व्यवहारप्रतिभासवतश्च याति प्राप्नोति हानिम्अपचयं पृथुरपि विशालोऽपि बोध: शितिपक्षचन्द्र इव कृष्णपक्षनिशाकर इवेति / / 13 / / अत एव - अवगतसमयोपनिषद्गुरुकुलवासः सतां सदा सेव्यः / आचारादौ निगदितमाद्यं व्यवहारबीजमिदम् / / 14 / / टीका-अवगतसमयोपनिषद्गुरुकुलवासः अवगता सम्यग्ज्ञाता समयोपनिषद् समया: स्वपरशास्त्राणि तेषामुपनिषद् हार्द यैस्ते, के ? गुरवः, तेषां कुले गुणरत्नरत्नाकरस्थानीये अन्तेवासित्वेन वासो निवसनं सतां साधूनां सदा यावज्जीवं सेव्य आश्रयणीयः, तदुक्तं च - नाणस्स होइ भागी थिरयरतो दंसणे चरित्ते य। धन्ना आवकहाए गुरुकुलवासं न मुंचंति / / तथा - आचारादौ श्रीमदाचाराङ्गादिशास्त्रेषु आदिपदादुत्तराध्ययनदशवैकालिकादिसंग्रहो द्रष्टव्यः, तत्र तत्र निगदितं निर्दिष्टम् तथा चागम: - "सुयं मे आउसं! तेणं भगवया एवमक्खायमित्यादि (आचाराङ्ग सू. 1) एतदक्षरगमनिका - श्रुतं मयाऽऽयुष्मन्! तेन भगवतैवमाख्यातम् इह - संसारे एकेषां नो संज्ञा - ज्ञानं भवति। 'आमुसंतेण' 'आवसंतेणं' महामहोपाध्याय श्री यशोविजय विरचितं 6 मार्गपरिशुद्धिप्रकरणंसटीकम् |