________________ कथञ्चित् प्रामाण्याद्नयविशेषेऽपि वस्त्वंशदेशकत्वं सिद्धान्तोपनिषद्विचारचतुराणां सम्मतमिति तथाभूतदेशकालेऽन्यतरनयेनाऽपि देशनादानं न्याय्यमिति / / 7 / / ततः किमित्याह - कुमततमोपहतदृशो जगतो भूतार्थबोधविमुखस्य / आदौ दर्शयति गुरुनिश्चयमतिदीपिकामथवा / / 8 / / टीका : कुमततमोऽपहतदृशः कुत्सितानि मतानि दर्शनानि शाक्याद्येकान्तवादिनां तान्येवध्यान्ध्यकारित्वात्तम इव तम:अन्धकारस्तेनाऽपहतं मन्दीभूतं दृग् विवेकचक्षुर्यस्य तज्जगत्तात्स्थ्यात्तद्व्यपदेश इति मोहाऽज्ञानाऽऽवृतो जीवस्तस्य जगत: अपहतविवेकचक्षुर्जीवस्य पुनः कीदृशः? भूतार्थबोधविमुखस्य भूतार्थ: सद्भूतजीवादिपदार्थस्तस्य बोधोऽवगमस्तस्माद् विमुखं पराङ्मुखं तस्य आदौ प्रथमतया दर्शयति बुद्धिविषयी करोति गुरुः तत्त्वोपदेशक: अनुयोगकृदाचार्य इत्यर्थः, निश्चयमतिदीपिंकां निश्चिनोति तत्त्वमिति निश्चयस्तस्य मति: मन्यतेऽनयेति निश्चयमति: निश्चयनयमतमित्यर्थः, सैव तत्त्वार्थग्रहिकेति श्रोत्रज्ञानान्धकाराऽपहारेण तत्त्वप्रकाशिकेति दीपिकेव दीपिका तां कुमततमोपहतजगतो दर्शयतीत्यर्थः / अथवा विकल्पे,अनन्तरगाथायामप्यन्यतरनयेन देशनादिदानस्यौचित्यमाह - निश्चयतो निश्चयभाग्मत्त इव भिनत्ति यश्चरणमुद्राम् / तस्य पदे व्यवहारो वज्रमयी श्रृङ्खला क्षेप्या / / 1 / / टीका - निश्चयतः परमार्थवृत्त्या, यदि वा व्यवहारनिरपेक्षनिश्चयत: शुष्कज्ञानत इत्यर्थः, निश्चयभाग् एकान्तनिश्चयनयमतानुसारी ज्ञानलवेन गर्वित: क्रियापराङ्मुखो मत्त इव मदोन्मत्तमातङ्ग इव भिनत्ति भनक्ति यः अनिर्दिष्टनामा क्रियाऽपलापेन चरणमुद्राम् चरणमाचार: प्रथमो धर्मस्तस्य मुद्रां मर्यादां तस्य निश्चयभाज: पदे बुद्धिलक्षणे चरणे, व्यवह्रियत इति व्यवहारोभावनिर्देशा व्यवहाररूपा सदाचरणलक्षणा चापरिहार्यत्वेन वज्रमयी लोहनिर्मितेव निबिडा श्रृङ्खला स्वच्छन्दमनोनिग्रहकारिका गुरुणा क्षेप्या उपदेष्टव्येति ।।१।।व्यवहारमाहत्म्यमाह अव्यवहारिणि जीवे निश्चयनयविषयसाधनं नास्ति / . . उपरदेशे कथमपि न भवति खलु शस्यनिष्पत्तिः / / 10 / / टीका - अव्यवहारिणि श्रीजिनोपदिष्टक्रियाऽऽचरणलक्षणव्यवहारविरहिते जीवे कृष्णपाक्षिकलक्षणे निश्चयनयविषयसाधनं निश्चिनोति तत्त्वमिति निश्चयः स चाऽसौ नयो निश्चयनयस्तस्य विषयः शुद्धात्मतत्त्वं तस्य साधनं साधकतमहेतुः सम्यग्दर्शनज्ञानचारित्राऽध्यवसायनिष्पत्तिस्थितिवृद्धिलक्षणं योगसामर्थ्य नास्ति नैवात्मसत्तां बिभर्तीत्यर्थः / अत्राऽर्थे सुप्रतीतं दृष्टान्तमाह - उपरदेशे उषर: क्षारमृत्तद्वति भूमौ कथमपि केनापि प्रकारेण न नैव भवति जायते खलुशब्दोऽवधारणे शस्यनिष्पत्तिः शालिगोधूमादिधान्योत्पत्तिरिति / / 10 / / अथ व्यवहारप्रतिभासस्य तद्विपर्ययस्य च फलमुपवर्णयन्नाह - व्यवहारप्रतिभासो दुर्नयकृद्वालिशस्य भवबीजम् / व्यवहाराऽऽचरणं पुनरनभिनिविष्टस्य शिवबीजम् / / 11 / / महामहोपाध्याय श्री यशोविजय विरचितं 5 मार्गपरिशुद्धिप्रकरणंसटीकम्