________________ चैकस्य स्वभावभेदो न दृश्यते, एको हि देवदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीननेकान् स्वभावाल्लभत इति, तत: प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययोऽप्यहं कतिपयानामपि च व्ययाभावात्, किमुक्तं भवति? - अवस्थितोऽप्यहं-नित्योऽप्यहम्, असङ्ख्ययप्रदेशिता हि न कदाचनापि व्यपैति अतो नित्यताऽभ्युपगमेऽपि न दोषः, तथा 'उवओगट्ठयाए'त्ति विविधविषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहम्, अतीतानागतयोर्हि कालयोरनेकविषयबोधानामात्मनश्र कथञ्चिदभिन्नानां भूतत्वाद् भावित्वाच्चेत्यनित्यपक्षोऽपि न दोषायेति।।५।। एतस्यैवाऽभ्युच्चयमाह उत्सर्गानिश्चयतो वाचामाचारचातुरीति मतम् / ___ तदनेकनयमयत्वे युक्तमितरथा तु न कथञ्चित् / / 6 / / टीका - उत्सर्गाद् अनन्तरोक्तनीत्या स्याद्वादेनैव देशनादानं प्रश्नोत्तरप्रदानं च निश्चयतः परमार्थवृत्त्या कुवादिछलजात्यादिदोषनिराकरणक्षमत्वादनेकधर्मात्मकवस्तुनिरूपणद्वारा वस्तुविषयकश्रोत्रज्ञानतिमिराज्पनयनाच्च वाचा. गिराम् आचारचातुरी आचर्यते - आसेव्यत इत्याचारस्तस्य चातुरी कौशलम् इति एवम्भूतं वचनव्यापार-नैपुण्यं मतम् अभ्युपगतं तीर्थकरगणधरैः / तत् तस्माद् देशनादानादि अनेकयमयत्वे अनेकैरेव न तु विवक्षितैकेनैव नयेन, अथ किंस्वरूपो नय इति चेत्, उच्यते नयत्यनेकांशात्मकं वस्त्वेकांशाऽवलम्बनेन प्रतीतिपथमारोपयतीति नयः। एवम्भूतैरनेकैर्नयैर्द्रव्यपर्यायनिश्चयव्यवहारज्ञानक्रियाद्यर्थिकलक्षणैर्निष्पन्नं देशनादिदानमनेकनयमयम् अनेकनयाऽत्मकम्, तस्य भावःस्वरूपमनेकनयमयत्वम्, तथा सति देशनादिदानं युक्तं युक्त्योपपन्नम्। इतरथा अनेकनयमयत्वं विहायैकमेव कञ्चिन्नयविशेषं पुरस्कृत्य देशनादिदानं तुशब्दोऽवधारणे न नैव कथञ्चित् केनापि प्रकारेण युक्तम्, एवम्भूतस्य देशनादिदानस्यैकान्तवादाऽन्त:पातित्वेन मिथ्यात्वादिति / / 6 / / ननु सर्वथोत्सर्गात् स्याद्वादेनैव देशनादिदानं युक्तमुताऽपवादत एकेनैव केनचिन्नयेनाऽपि युक्तमित्याशङ्क्याह - तत्त्वाङ्गव्यवहारादयमपि येन प्रमाणतां भजते / / अंशधिया तु नयत्वव्यपदेशस्तत्र तन्त्रविदाम् / / 7 / / टीका - तत्त्वाङ्गव्यवहारात् तत्त्वानि जीवाजीवादयस्तेषामङ्गानि प्रतीका: करचरणादीनि बाह्यानि, ज्ञानादीनि त्वाभ्यन्तराणि तेषां व्यवहारात्संदेहहरणात्, उक्तं चाऽभिधानचिन्तामणिस्वोपज्ञवृत्तौ - वि नानार्थेऽव संदेहे हरणं हार उच्यते।। नानासंदेहहरणात्व्यवहार:प्रकीर्तितः / / 1 / / श्लोक 262 वृत्तौ।। आस्तां सर्वनयमय: स्याद्वाद: अयमपि सङ्ग्रहाद्यन्यतरनयोऽपि येन प्रमाणघटकीभूतत्वेन हेतुना प्रमाणतां कथञ्चित् सदसन्नित्यानित्यैकाऽनेकादिरूपतया प्रमेयनिश्चायकत्वात् प्रामाण्यं यद्वा प्रामाण्यपरिकररूपतां भजते आश्रयते तेनैव कारणेन अंशधिया वस्त्वंशबुद्ध्या तुशब्दो विशेषद्योतने तत्र अन्यतरनये नयत्वव्यपदेशः प्रमाणप्रतिपन्नवस्त्वंशप्रतिपादकत्वं तन्त्रविदांसिद्धान्तरहस्यवेदिनां सम्मत इति शेषः / अयंभावः - अन्यतरस्याऽपि नयस्य प्रमाणघटकीभूतत्वेन महामहोपाध्याय श्री यशोविषय विरचितं 4 मार्गपरिशुद्धिप्रकरणंसंटीकम्