SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ वस्तुनिश्चयपटुना स्याद्वादेनैव देशना देया। इत्युत्सर्गस्थितिरियमपरा त्वपवादमर्यादा / / 4 / / - टीका - वस्तुनिश्चयपटुना - वसन्ति गुणा अस्मिन्निति वस्तु जीवादि द्रव्यम्, उक्तं च - गुणपर्यायवद् द्रव्यम् (तत्त्वार्थसूत्रम् - अ.५ सू. 38), तस्य निश्चयो नयप्रमाणैर्निर्णयस्तत्र पटुः कुशलो विषयविभागवेदीत्यर्थः, तेन वस्तुनिश्चयपटुना देशकेन स्याद्वादेनैव स्याद्वाद उक्तलक्षणस्तस्याऽशेषदोषातीतत्वात्तेनैव देशना धर्मोपदेशलक्षणा देया दातव्या। इति एवम्भूता स्याद्वादेनैव देशनाविततिः, किमित्याह - उत्सर्गस्थिति: देशनादाने सामान्य मर्यादा, इयम् स्याद्वादेनैव देशनादानमुत्सर्गस्थितिः। अपरा मुग्धमतिश्रोतृसव्यपेक्षं कुवादिनिकारणार्थं वास्याद्वादं विहायाऽन्यतरैकनयेन देशनादानं तुशब्दो विशेषार्थः, किमित्याह - अपवादमर्यादा देशनादाने विशिष्टा स्थितिरिति / / 4 / / अत एव दिदेश तथा, कथासु धीरो यथार्थकथनपटुः / एकद्वित्वादिविधौ भगवानपि सोमिलप्रश्ने / / 5 / / टीका - यत: स्याद्वादेनैव देशना देयेत्युत्सर्गस्थिति: अत एव अस्मादेव कारणाद् दिदेश व्याजहार मिथ्यात्वतिमिरापहारेण यथा सम्यग् बोधो जायते तथा स्याद्वादपद्धत्या कथासु प्रश्नोत्तरलक्षणासु वार्तासु, केवलालोकलक्षणया धिया राजते इति, धीर: श्रीवीरप्रभुः, यथार्थकथनपंटु H यथा येन प्रकारेण केवलालोकेन ज्ञाता अर्था जीवादयस्तथा कथने निरूपणे पटुर्निपुणः, एकद्वित्वादिविधौ किं भवानेको द्वौ वाऽक्षयो वेत्यादिलक्षणपर्यनुयोगे सति स्याद्वादेनैव तदुत्तरविधाने, आस्तां भगवच्छासनानुगता गीतार्थाः साक्षाद्भगवानपि तीर्थकरप्रभुरपि वर्धमानस्वामी सोमिलप्रश्ने सोमिलनाम्नो द्विजस्य प्रश्ने पृच्छायां निरूपितवानित्यर्थः / एतद्व्यतिकरो यथा भगवत्यां तथोपन्यस्यतेऽत्र एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावभविए भवं?, सोमिला! एगेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणटेणं भंते! एवं वुच्चइ जाव भविएवि अहं?, सोमिला! दव्वट्ठयाए एगे अहं नाणदंसणट्ठयाए दुविहे अहं पएसट्ठयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवयोगट्ठयाए अणेगभूयभावभविएवि अहं, से तेणटेणं जाव भविएवि अहं, एत्थ णं से सोमिले माहणे संबुद्धे ।।सूत्रं 647 / / 18-10 ।।अट्ठारसमं सयं समत्तं / / 10 / / एतवृत्तिः - _ 'एगे भव' मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानां चात्मनोऽनेकतोपलब्धित एकत्वं दूषयिप्यामीति बुद्ध्या पर्यनुयोग: सोमिलभट्टेन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामिति बुद्ध्या पर्यनुयोगो विहितः, 'अक्खए भव' मित्यादिना च पदत्रयेण नित्यात्मपक्ष: पर्यनुयुक्तः, 'अणेगभूयभावभविए भवंति अनेके भूता-अतीता: भावा:-सत्तापरिणामा भव्याश्च भाविनो यस्य स तथा, अनेन चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्ष: पर्युनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति, तत्र च भगवता स्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि - 'एगेवि अह' मित्यादि, कथमित्येतत्?, इत्यत आह - ‘दव्वट्ठयाए एगोऽहं'चि जीवद्रव्यस्यैकत्वेनैकोऽहं न तु प्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भो न बाधकः, तथा कञ्चित्स्वभावमाश्रित्यैकत्वसङ्ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपि न विरुद्धमित्यत उक्तं - 'नाणदंसणठ्याए दुवेवि अहं ति, न | महामहोपाध्याय श्री यशोविजय विरचितं 3 मार्गपरिशुद्धिप्रकरणंसटीकम्
SR No.004398
Book TitleMargparishuddhi Prakaranam
Original Sutra AuthorN/A
AuthorKulchandrasuri
PublisherBhidbhanjan Parshwanath Jain Sangh
Publication Year2002
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy