________________ श्री श्रमणसङ्घस्तस्मै नम: मनोवाक्कायसङ्कोचलक्षणमभिवादनम्। एतेन वचनातिशय: प्रादुष्कृतो भवति स्वामिन एकरूपस्याऽपि वचनस्य प्रत्येकं देवमनुजादीनां स्वस्वभाषयाऽवबोधकारित्वात्। एवमतिशयचतुष्टयप्रवेदनेन त्रिजद्गुरुशासनस्याऽप्रतिघत्वेन परममङ्गलरूपात्तन्नमस्कारस्याऽपि विनयरूपत्वेनाऽभ्यन्तरतपोरूपत्वाद्भावमङ्गलम्। नन्विष्टदेवतानमस्कारस्य मङ्गलरूपत्वात् कथं तच्छासननमस्कारस्य मङ्गलत्वमिति चेत्, सत्यम्, शासननमस्कारव्याजेन तच्छाशितुरपि नमस्कारो विहित एवेति न कश्चिद्दोषः / / 1 / / अथ शासनाऽऽधारभूतं श्रीजिनवचनं स्तौति, यदि वोपाद्धातं वितनोति जयति सतां किमपि मुखे, जिनवचनामृतनिषेकमाधुर्यम् / उज्जीवति गुणगरिमा, कलौ यतः खलगिरा पिहितः / / 2 / / टीका-जयति विजयते कुवादिखलमुखमुद्राप्रदानात्, किमपि स्वल्पमेव न तु जिनकाल इवाऽनल्पंक्षीरश्रवादिलब्धीनामभावात्, कुत्र? सतां माध्यस्थ्यादिगुणगणभाजां साधूनां मुखे वदनारविन्दे, किम्? जिनवचनामृतनिषेकमाधुर्यं जिनवचनं श्रीतीर्थकरवाणी तदेव कलिकालविषमविषधरविषविकाराऽपाकारित्वादमृतमिवाऽमृतं सुधा तस्य निषेक: प्रक्षेपस्तेन माधुर्यं मधुरिमा सज्जनचेतआह्लादकत्वात्, यत उक्तस्वरूपजिनवचनामृतनिषेकमाधुर्येण उज्जीवतिध्वंसमानोऽपि पुन:पौन्येनाऽऽत्मसत्तां बिभर्ति, कः? गुणगरिमा गुणा ज्ञानध्यानत्यागवैराग्यसंयमसद्देशनादिगुणास्तेषां गरिमा गौरवम्, कीदृशो गुणगरिमा? कलिहेतुत्वात् कलिस्तस्मिन् कलौ वर्तमानहुण्डावसर्पिणीपञ्चमाऽरकलक्षणे खलगिरा खला: स्वभावत एव परप्रतारणपरत्वाद् दुर्जना: स्वशैथिल्यादिदोषाच्छादनपरा: श्रीजिनवचननिरपेक्षस्वाभिमतमतमतान्तरस्थापकाश्च कुमतिकौशिकास्तेषां गी: असत्प्रलापरूपा, तथाहि - निआवासविहारं, चेइयभत्तिं च अज्जियालाभं। . . विगईसु अपडिबंधं, णिद्दोसं चोइआ बिन्ति / / 1 / / तथा - "चैत्यपदार्थो ज्ञानं न प्रभुप्रतिमा'' इत्यादिरूपा तया पिहित: तिरोहितो गुणगरिमा जिनवचनामृतनिषेकमाधुर्येणोज्जीवतीत्यर्थः / / 2 / / अथ श्रीजिनवचनामृतास्वादपराणामेव रुचिं विशदयति स्याद्वादास्वादपराः प्रतियन्ति हि परमतानि विरसानि।' नहि माकन्दमुकुलभुग, नन्दति पिचुमन्दतरुषु पिकः / / 3 / / स्याद्वादास्वादपराः स्याद्वाद: स्यात्पदलाञ्छितवचनपद्धतिमदुदात्तजैनदर्शनम्, तदुक्तं स्याद्वादमञ्चर्यां-स्यादिति अनेकान्तद्योतकमव्ययम् तत: स्याद्वादः, नित्यानित्याद्यनेकधर्मशबलैकवस्त्वभ्युपगम इति यावत्।न्यायावतारवृत्तावप्युक्तं - निर्दिश्यमानधर्मव्यतिरिक्ताशेषधर्मान्तरसंसूचकेन स्याता युक्तोवाद: अभिप्रेतधर्मवचनं स्याद्वादः, तस्याऽऽस्वादो रसानुभवस्तत्परा ज्ञातस्याद्वादास्वादा: प्रतियन्ति जानन्त्येव हिशब्दोऽवधारणे परमतानि परेषामेकान्तनित्याऽनित्यादिवादिसाङ्ख्यबौद्धादीनां मतानि दर्शनानि कदाग्रहग्रस्तत्वेनाऽरुचिकरत्वाद् विरसानि नीरसानि।अबार्थे दृष्टान्तमाह - नहि नैव माकन्दमुकुलभुक् सहकारकलिकाभोजी पिक: कोकिल: नन्दति मोदते पिचुमन्दतरुषु- निम्बद्रुमेषु।।३।। सम्प्रति स्याद्वादमेव पुरस्कृत्य देशनाविधानमाह - महामहोपाध्याय श्री यशोविजय विरचितं मागपिरिशद्धिप्रकरणंसटीकम