________________ / / मार्गपरिशुद्धिप्रकरणम् / / प्रणम्य श्री जिनेशांश्च, वीरं गुरून् श्रुतेश्वरीम् / टीका विधीयते मार्ग - परिशुद्धेः स्फुटं श्रुतात् / / 1 / / चतुर्दशशताधिकग्रन्थप्रणेतृश्रीहरिभद्रसूरिसन्दृब्धस्वोपज्ञटीकासमलङ्कतः श्रीपञ्चवस्तुकग्रन्थः सुप्रसिद्ध एव। ग्रन्थगतपञ्चवस्तूपदर्शिका गाथा चेयम् पवज्जाए विहाणं, पइदिणकिरिया वएसु ठवणा य / अणुओग-गणाणुण्णा, संलेहण मो इइ पंच / / 1 / / (पञ्च.व.गा.२) उक्तगाथाऽक्षरगमनिका पञ्चवस्तूपन्यासक्रमश्च हेतुपुरस्सरं स्वोपज्ञटीकांशत: प्रदर्श्यते, तथादि- प्रव्रज्याविधाने सति सामायिकसंयतो भवति, संयतस्य प्रतिदिनक्रिया, क्रियावतश्च व्रतेषु स्थापना, व्रतस्थस्य चानुयोगगणानुज्ञे सम्भवतश्चरमकाले च संलेखना। इति गाथार्थः। एवम्भूतार्थसार्थकस्यैव श्रीपञ्चवस्तुकग्रन्थस्य नि:स्यन्दभूतो मोक्षमार्गाऽनन्यत्वात् सार्थको नाम्ना मार्गपरिशुद्धिम्रन्थोऽयं गभीरार्थो न्यायाचार्यश्रीमद्यशोविजय वाचकपूज्यैः सन्दृब्धः। श्रीश्रमणसङ्घस्य नित्यस्वाध्यायरूपेण सोपयोगित्वात्। श्रेयोभूतस्य प्रस्तुतग्रन्थस्य ग्रन्थकारो निर्विघ्नपरिसमाप्त्यर्थं शिष्टाचारपालनार्थ चादौ मङ्गलमाह ऐन्द्रश्रेणिनताय, प्रथमाननयप्रमाणरूपाय / भूतार्थभासनाय, त्रिजगद्गुरुशासनाय नमः / / 1 / / टीका - ऐन्द्र श्रेणिनताय इन्द्राणामियम् ऐन्द्री, सा चासौ श्रेणिः संहतिः ऐन्द्रश्रेणिस्तया नतं मनोवाक्कायसङ्कोचलक्षणनमस्कारविषयीकृतम्। किम्? त्रिजगद्गुरुशासनं वक्ष्यमाणस्वरूपं तस्मै नम इत्यन्वयः। एतेनास्तां शासनप्रणेतृणामर्हतां पूजाद्यतिशयचतुष्कं प्रायेण जन्यस्य जनकानुरूपत्वात् तच्छाशनस्यापीति ख्यापितं भवति।अपरञ्च ऍकारो ग्रन्थकारस्य सिद्धसारस्वतमन्त्रबीजमिति तं स्मृतिपथं नीत्वा ग्रन्थारम्भो न्याय्यः। प्रकृतपदेन पूजातिशयो ज्ञापितः। अथ पुनः कीदृशाय तच्छाशनाय? प्रथमाननयप्रमाणरूपाय प्रथमानं प्रतीयमानं नयप्रमाणरूपं नयाश्चनयान्तरसापेक्षा: प्रमाणघटकीभूता नैगमादय: सप्रभेदा: सुनया:प्रमाणं च प्रमेयस्वरूपनिश्चायकं सम्यग्ज्ञानं तेषां रूपमसाधारणं स्वरूपं यत्र तस्मै, एतेनाऽपायाऽपगमाऽतिशय आवेदितो भवति नयप्रमाणैः परिच्छिन्ने मोक्षाद्यर्थे प्रवर्तमानस्य फलाऽविसंवादेन वञ्चनालक्षणाऽपायाभावात्। पुन: कथम्भूताय? भूतार्थभासनाय भूता: सद्भूताः, न तु कपोलकल्पिता:, यथा शब्दो नित्य आकाशगुणत्वात् तथा गृहाश्रमसमो धर्मो, न भूतो न भविष्यति। पालयन्ति नराः शूराः, क्लीबा:पाषण्डमाश्रिताः / / 1 / / इत्यादिरूपाः, अर्था जीवाजीवादयस्तेषां भासनं प्रकाशनं यस्मिन् तस्मै। अनेन प्रवचनस्याऽपि ज्ञानातिशय उक्त: केवलालोकेना प्तपुरुषप्रणीतत्वात्। एवम्भूतायापि कस्मै ? त्रिजगद्गुरुशासनाय त्रयाणाम् ऊर्ध्वाऽधस्तिरश्चां जगतां लोकानां समाहारस्त्रिजगत्तनिवासिनां देवमनुजादीनांजीवाजीवादितत्त्वं गृणात्युपदिशतीति त्रिजगद्गुरुः स चासन्नोपकारित्वात्श्रीमन्महावीरश्चरमतीर्थपतिस्तस्य शासनमाज्ञा प्रवचनरूपा तदाजीवनेनाऽभेदोपचाराद्वा महामहोपाध्याय श्री यशोविजय विरचितं 1 मार्गपरिशुद्धिप्रकरणंसटीकम्